________________
सूक्ष्मैके० अप० | बादरैके० स्थितिस्थानानि | पर्या० स्थि० स्था० स्तोकानि संख्यातगुणानि
सूक्ष्मैके०
बादरैके० पर्या० स्थि० स्था० | पर्या० स्थि० स्था० संख्यातगुणानि संख्यातगुणानि
अप० द्वीन्द्रि० स्थि० स्था० असंख्यातगुणानि
द्वीन्द्रि० पर्या० स्थि० स्था० संख्यातगुणानि
त्रीन्द्रि० अप० स्थिति० स्था० संख्यातगुणानि
त्रीन्द्रि० पर्या० स्थिति० स्था० संख्यातगुणानि
६
८
चतुरि० अप० स्थि० स्था० संख्यातगुणानि
पर्या० चतुरि० स्थि० स्था० संख्यातगुणानि
असंज्ञिपञ्चे० अप० स्थि० स्था० संख्यातगुणानि
असंज्ञिपञ्चे० | पर्या० स्थि० स्था० | संख्यातगुणानि
संज्ञिपञ्चे०
संज्ञिपञ्चे० अप० स्थि० स्था० ।
पर्या० स्थि० स्था० संख्यातगुणानि
संख्यातगुणानि
(पंचमकर्म० गा०५३-५४) 1317 [58] अथाऽपवर्गमूलत्वेन भेदज्ञानमभिष्टौति
ये यावन्तो ध्वस्तबन्धा अभूवन्, भेदज्ञानाभ्यास एवात्र बीजम् । नूनं येऽप्यध्वस्तबन्धा भ्रमन्ति, तत्राभेदज्ञानमेवेति विद्यः ॥९॥
व्याख्या-ये यावन्तः केचन प्राक्काले ध्वस्तबन्धाः ज्ञान-क्रियासमुच्चयसमनुष्ठानेन निनकर्माणः अभूवन् अत्र बन्धध्वंसे भेदज्ञानाभ्यास एव बीजम् । अयमर्थः प्रकृतिपुरुषयोविवेकख्यातौ जातायामेव क्रियमाणस्य कर्मणः सम्यग्ज्ञानमूलकत्वेन बन्धापनयनं प्रति सामर्थ्यम् । तदविवेकख्यातौं तु मोच्य-मोचकयोर्याथात्म्यानवगमात् कस्य मोक्षाय प्रयतताम् ? परद्रव्यविभागेन परद्रव्योपरज्यमानस्वधर्मविभागेन च आत्मन एकाग्रचिन्तने ह्यासंसाराबद्धदृढतरमोहग्रन्थेरुद्ग्रन्थनं स्यात्, ततस्तन्मूलरागद्वेषक्षपणम्, ततस्तद्धेतकोत्तरकर्माभावः, केवलयोगोपादीयमानस्य च बन्धस्य शैलेशीकरणे योगनिरोधादेव निरोधे आत्मनः स्वरूपावस्थानलक्षणो मोक्षः सिद्ध्यतीति सिद्धं भेदज्ञानभ्यासस्य मोक्षं प्रति बीजत्वम् । नूनंनिश्चितम् । येऽपि प्राणिनो अध्वस्तबन्धा मोक्षोपायालाभाद् अनपनीतकर्मरजःसंश्लेषा भ्रमन्ति अविद्याकन्दलीकन्दायमानमोहानुवृत्तितन्त्रतया गृहीतनानानारकतिर्यगादिपर्यायाः संसरन्ति, तत्र भ्रमणे अभेदज्ञानमेव बीजमिति विद्यः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org