________________
गण्ठि त्ति सुदुब्भेओ, कक्खडघणरूढगूढगण्ठि व्व । जीवस्स कम्मजणिओ, घणरागद्दोसपरिणामो ॥३॥ एत्तो विवज्जओ खलु, भिन्ने एयम्मि सम्मणाणं तु । थोवं पि सुपरिसुद्धं, सच्चासम्मोहहेउ त्ति ॥४॥ सम्मत्तंमि उ लद्धे, पलियपुहत्तेण सावओ होइ । चरणोवसमखयाणं, सागरसंखन्तरा होन्ति" ॥५॥
[विशेषावश्यकगता इमा गाथा १२०२. १२०३, ११९५-१२२२] इत्यादि लेशतः परिभावितार्थमेतत् ॥१०॥ (योगदृष्टिसमु० श्लो० १०) 8/4 [29] नाणस्स होइ भागी, थिरयरओ दंसणे चरित्ते अ।
धन्ना आवकहाए, गुरुकुलवासं न मुंचंति ॥५७१३॥ व्या० ज्ञानस्य-श्रुतज्ञानादेर्भवति स्याद् भागी-भाजनं गुरुकुले वसन्निति प्रकृतम् प्रत्यहं वाचनादिभावात् । तथा स्थिरतरकः-पूर्वप्रतिपन्नदर्शनोऽपि सन्नतिशयस्थिरो भवति दर्शने-सम्यक्त्वे, अन्वहं स्वसमयपरसमयतत्त्वश्रवणात् तथा चरित्रे-चरणे स्थिरतरो भवति, अनुवेलं वारणादिभावात् चशब्दः समुच्चये, यत एवं ततो धन्या-धर्मधनं लब्धारो यावत्कथं-यावज्जीवम्, गुरुकुलवासंगुरुगृहनिवसनम्, न मुञ्चन्ति-न परित्यजन्तीति गाथार्थः। (बृ०क०भा०-५७१३) 85
[30] इत्थं सम्यक्त्वस्य लिङ्गान्यभिधाय संप्रति तस्यैव माहात्म्यमुपदर्शयनिदमाह
णादंसणिस्स नाणं, नाणेण विणा न हुंति चरणगुणा । अगुणिस्स नत्थि मुक्खो, नत्थि अमुक्खस्स निव्वाणं ॥३०॥
अन्यच्च नादर्शनिन:-दर्शनविरहितस्य ज्ञानमिति सम्यग्ज्ञानम्, ज्ञानेन विना ज्ञानविरहिताः न भवन्ति-न जायन्ते, के ते ? चरणगुणाः, तत्र च चरणं-व्रतादि, गुणा:-पिण्डविशुद्ध्यादयः, अगुणिन:-अविद्यमानगुणस्य चरणाविनाभावित्वाद्यथोक्तगुणानामविद्यमानचरणस्य च, यदिवा प्राक्चरणान्तर्गता गुणाश्चरणगुणा इति व्याख्यातास्तत इहापि त एव गृह्यन्ते, नास्ति मोक्षः सकलकर्मक्षयलक्षणो, नास्त्यमुक्तस्य कर्मणेति गम्यते निर्वाणं-निर्वृतिर्मुक्तिपदप्राप्तिरितियावत्, तदत्र पूर्वसूत्रेण मुक्त्यनन्तरहेतोरपि चारित्रस्य सम्यक्त्वभावः एव भवनं तन्माहात्म्यमुक्तम् अनन्तरसूत्रेण तूत्तरोत्तरव्यतिरेकदर्शनिना शेषगुणानाम्, व्यतिरेकस्यान्वयाक्षेपकत्वादिति सूत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org