________________
'द्वितीयापूर्वकरण' इति, ग्रन्थिभेदनिबन्धनप्रथमापूर्वकरणव्यवच्छेदार्थं द्वितीयग्रहणम्, प्रथमेऽधिकृतसामर्थ्ययोगाऽसिद्धेः अपूर्वकरणं त्वपूर्वपरिणामः शुभोऽनादावपि भवे तेषु तेषु धर्मस्थानेषु वर्तमानस्य तथाऽसञ्जातपूर्वो ग्रन्थिभेदादिफल उच्यते । तत्र प्रथमेऽस्मिन् ग्रन्थिभेदः फलम्, अयं च सम्यग्दर्शनफलः, सम्यग्दर्शनं च प्रशमादिलिङ्ग आत्मपरिणामः । यथोक्तं "प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणं तत्त्वार्थश्रद्धानं सम्यग्दर्शनम्" (त० भाष्य० १-२) इति, यथाप्राधान्यमयमुपन्यासः चारुश्च पश्चानुपूर्येति समयविदः । द्वितीये त्वस्मिस्तथाविधकर्मस्थितेस्तथाविधसंख्येयसागरोपमातिक्रमभाविनि 'प्रथमस्तात्त्विको भवेत्' इति, 'प्रथमो'-पारमार्थिको भवेत्, क्षपकश्रेणियोगिनः क्षायोपशमिकक्षान्त्यादिधर्मनिवृत्तेः, अतोऽयमित्थमुपन्यास इति । अतात्त्विकस्तु प्रव्रज्याकालेऽपि भवति प्रवृत्तिलक्षणधर्मसंन्यासायाः प्रव्रज्यायाः ज्ञानयोगप्रतिपत्तिरूपत्वात् ।
अत एवास्या भवविरक्त एवाधिकार्युक्तः, यथोक्तं-"अथ प्रव्रज्यार्हः (१) आर्यदेशोत्पन्नः, (२) विशिष्टजातिकुलान्वितः, (३) क्षीणप्रायकर्ममलः, (४) तत एव विमलबुद्धिः, (५) 'दुर्लभं मानुष्यम्, जन्म मरणनिमित्तम्, संपदश्चपलाः, विषया दुःखहेतवः संयोगे वियोगः, प्रतिक्षणं मरणम्, दारुणो विपाकः' इत्यवगतसंसारनैर्गुण्यः, (६) तत एव तद्विरक्तः, (७) प्रतनुकषायः, (८) अल्पहास्यादिः, (९) कृतज्ञः, (१०) विनीतः (११) प्रागपि राजामात्यपौरजनबहुमतः (१२) अद्रोहकारी, (१३) कल्याणाङ्गः, (१४) श्राद्धः, (१५) स्थिरः, (१६) समुपसंपन्नश्च इति ।" न ह्यनीदृशो ज्ञानयोगमाराधयति, न चेदृशो नाराधयतीति भावनीयम् । सर्वज्ञवचनमागमः, तन्नायमनिरूपितार्थ इति ।
'आयोज्यकरणादूर्ध्वम्' इति केवलाभोगेनाऽचिन्त्यवीर्यतया 'योज्यं'-तथातथा तत्कालक्षपणीयत्वेन भवोपग्राहिकर्मणस्तथावस्थानभावे (भावेन) 'करणं' कृतिरायोज्यकरणं शैलेश्यवस्थाफलमेतत् । अत एवाह 'द्वितीय इति तद्विदयोगसंन्याससंज्ञितः सामर्थ्ययोग इति तद्विदोऽभिदधति शैलेश्यवस्थायामस्य भावात् ।
सर्वमिदमागमिकं वस्तु, तथा चैतत्संवाद्यार्षम्"करणं अहापवत्तं, अपुव्वमणियट्टिमेव भव्वाणं । इयरेसिं पढमं चिय, भण्णइ करणं ति परिणामो ॥१॥ जा गण्ठी ता पढम, गण्ठि समइच्छओ भवे बीयं । अणियट्टीकरणं पुण, सम्मत्तपुरक्खडे जीवे ॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org