________________
एवमपूर्वकरणेऽपि द्रष्टव्यम् । अमूनि चाध्यवसायस्थानानि यथाप्रवृत्तापूर्वकरणयोः संबन्धीनि स्थाप्यमानानि विषमचतुरस्रं क्षेत्रमास्तृणन्ति । तयोरुपरि चानिवृत्तकरणाध्यवसायस्थानानि मुक्तावलीसंस्थानानि भवन्ति । उपर्युपरिमुखानि चामून्यनुचिन्त्यमानानि प्रतिसमयमनन्तगुणवृद्ध्या प्रवर्धमानान्यवगन्तव्यानि, तिर्यक् षट्स्थानपतितानि । स्थापना चेयम् ॥९॥ (कर्मप्र०उप०क०गा०९) 5/6 [18] मंदविसोही पढमस्स, संखभागाहि पढमसमयम्मि ।
उनस्सं प्पिमहो, एक्केक्कं दोण्हं जीवाणं ॥१०॥ आचरमाओ सेसुक्कोसं पुव्वप्पवत्तमिइनाम ।
बिइयस्स बिइयसमए, जहण्णवि अणंतरुक्कस्सा ॥११॥ मंदविसोहीत्यादि-इह कल्पनया द्वौ पुरुषौ युगपत्करणप्रतिपन्नौ विवक्ष्येते । तत्रैकः सर्वजघन्यया श्रेण्या प्रतिपन्नः, अपरस्तु सर्वोत्कृष्टया विशोधिश्रेण्या । तत्र प्रथमस्य जीवस्य प्रथमसमये मन्दा सर्वजघन्या विशोधिः सर्वस्तोका । ततो द्वितीयसमये जघन्या विशोधिरनन्तगुणा । ततोऽपि तृतीयसमये जघन्या विशोधिरनन्तगुणा, एवं तावद्वाच्यं यावद्यथाप्रवृत्तकरणस्य संख्येयो भागो गतो भवति । ततः प्रथमसमये द्वितीयस्य जीवस्योत्कृष्टं विशोधिस्थानमनन्तगुणं वक्तव्यम् । ततोऽपि यतो जघन्यस्थानानिवृत्तस्तस्योपरितनी जघन्या विशोधिरनन्तगुणा । ततोऽपि द्वितीये समये उत्कृष्टा विशोधिरनन्तगुणा । तत उपरि जघन्या विशोधिरनन्तगुणा । एवमुपर्यधश्चैकैकं विशोधिस्थानमनन्तगुणतया द्वयोर्जीवयोस्तावनेयं यावच्चरमसमये जघन्या विशोधिः । तत आ चरमात् चरममभिव्याप्य यान्यनुक्तानि स्थानानि उत्कृष्टानि विशोधिस्थानानि तानि क्रमेण निरन्तरमनन्तगुणानि वक्तव्यानि । तदेवं समाप्तं यथाप्रवृत्तकरणम् (१ क०) । अस्य च यथाप्रवृत्तकरणस्य पूर्वप्रवृत्तमिति द्वितीयं नाम, शेषकरणाभ्यां पूर्व प्रथमं प्रवृत्तं पूर्वप्रवृत्तमिति । अस्मिश्च यथाप्रवृत्तकरणे स्थितिघातो रसघातो गुणश्रेणिर्वा न प्रवर्तते, केवलमुक्तरूपा विशोधिरेवानन्तगुणा । यानि चाप्रशस्तानि कर्माण्यत्र स्थितो बध्नाति तेषामनुभागं द्विस्थानकं बध्नाति । यानि च शुभानि तेषां चतुःस्थानकम् । स्थितिबन्धेऽपि च पूर्णे पूर्णे सत्यन्यं स्थितिबन्धं पल्योपमसंख्येयभागन्यून बध्नाति । __संप्रत्यपूर्वकरणमभिधीयते- "बिइयस्सेत्यादि' द्वितीयस्य करणस्यापूर्वकरणाख्यस्य यो द्वितीयः समयस्तत्र जघन्यमपि विशोधिस्थानमनन्तरोत्कृष्टात् प्रथमसमयभाविन उत्कृष्टात् विशोधिस्थानात् अनन्तगुणं वक्तव्यम् । एतदुक्तं भवतिनेह यथाप्रवृत्तकरणे इव प्रथमतो निरन्तरं जघन्यानि विशोधिस्थानान्यनन्तगुणतया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org