________________
१८
येनोक्तमहीनाक्षरमिति, अत्रोच्यते, लोकेऽपि तावद्विद्यामन्त्रादिभिरक्षररादिहीनैरुच्चार्यमाणैर्विवक्षितफलवैकल्यमनर्थावाप्तिश्च दृश्यते, किं पुनः परममन्त्रकल्पे सिद्धान्ते? तथाहि - राजगृहनगरे समवसृतस्य भगवतश्चरमतीर्थाधिपतेर्वन्दनार्थं विबुधविद्याधरनरनिवहः श्रेणिकञ्च सपुत्रः समाययौ ततो भगवदन्तिके धर्मं श्रुत्वा प्रतिनिवृत्तायां परिषदि कस्यचिद्विद्याधरस्य गगनोत्पतनहेतुविद्यासंबन्ध्येकमक्षरं विस्मृतिपथमवततार, विस्मृते च तस्मिन्किञ्चिन्नभस्युत्पत्य पुनर्निपतत्यसौ, पुनरुत्पतति पुनश्च निपतति । एवं च कुर्वन्तममुं विलोक्य श्रेणिकेन भगवान् पृष्टः किमित्ययं महाभागः खेचरो विधुरितपक्षः पक्षीव नभसि किञ्चिदुत्पत्य पुनर्निपततीति ? भगवता च विद्याक्षरविस्मरणव्यतिकरस्तस्मै निवेदितः, तं च निवेद्यमानं श्रुत्वा अभयकुमारः खेचरमुपसृत्यैवमवादीत् भोः खेचर ! यदि मां समानसिद्धिकं करोषि तदा त्वद्विद्याऽक्षरमुपलभ्य कथयामि, प्रतिपन्नं च तेन । अभयकुमारस्य चैकस्मादपि पदादनेकपदाभ्यूहनशक्तिरस्तीति शेषाक्षरानुसारेणोपलभ्य तदक्षरं निवेदितं खेचरस्य, सोऽपि संजातसंपूर्णविद्यो हृष्टः श्रेणिकसुताय विद्यासाधनोपायं कथयित्वा गतः समीहितप्रदेशमिति एष दृष्टान्तः । उपनयस्त्वयम् - यथा तस्य विद्याधरस्य हीनाक्षरतादोषान्नभोगमनमुपरतम्, तदुपरमे च व्यर्थेव विद्या, तथेहापि हीनाक्षरतायामर्थभेदः, तद्भेदे क्रियाभेदः, तद्भेदे च मोक्षाभावस्तदभावे च दीक्षादिग्रहणवैयर्थ्यमेवेति । एवमधिकाक्षरादिष्वपि दोषाः सदृष्टान्ता अभ्यूह्य वाच्या: ||१३|| (अनु०द्वार सू० १४ ) । 5/3
[17] संप्रति करणानामेव स्वरूपमाविश्चिकीर्षुराहअणुसमयं वतो, अज्झवसाणाण णंतगुणणाए । परिणामद्वाणाणं, दोसु वि लोगा असंखिज्जा ॥९॥
अणुसमयं त्ति अनुसमयं - समये समयेऽध्यवसानानामनन्तगुणनया विशुद्ध्या प्रतिसमयमनन्तगुणवृद्ध्याऽध्यवसानानां विशुद्ध्येत्यर्थः । प्रवर्धमानो यावत् करणसमाप्तिर्भवति तावन्निरन्तरं वर्धते । कियन्ति पुनरध्यवसानानि करणेषु प्रत्येकं भवन्तीति चेदुच्यते- 'परिणामेत्यादि' द्वयोरपि यथाप्रवृत्तापूर्वकरणयोः परिणामस्थानानामनुसमयं लोका असंख्येया भवन्ति । एतदुक्तं भवति - यथाप्रवृत्तकरणेऽपूर्वकरणे च प्रतिसमयमसंख्येयलोकाकाशप्रदेशराशिप्रमाणानि अध्यवसायस्थानानि भवन्ति । तथाहि - यथाप्रवृत्तकरणे प्रथमसमये विशोधिस्थानानि नानाजीवापेक्षयाऽसंख्येयलोकाकाशप्रदेशप्रमाणानि । द्वितीयसमये विशेषाधिकानि ततोऽपि तृतीयसमये विशेषाधिकानि । एवं तावद्वाच्यं यावच्चरमसमयः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org