________________
२०६
श्रीज्ञानमञ्जरी
[130] अन्योऽन्यपक्षप्रतिपक्षभावाद्, यथा परे मत्सरिणः प्रवादाः । नयानशेषानविशेषमिच्छन्, न पक्षपाती समयस्तथा ते ॥३०॥ [स्याद्वा०मं०गा०३०] [131] उदधाविव सर्वसिन्धवः, समुदीर्णास्त्वयि नाथ ! दृष्टयः । न च तासु भवान् प्रदृश्यते, प्रविभिन्नासु सरित्स्विवोदधिः ॥ ॥ [ सिद्धसेनीया द्वा० द्वा०१४-५]
तथा च सन्मतौ -
[132] ण य तइओ अस्थि णओ, ण य सम्मत्तं ण तेसु पडिपुन्नं । जेण दुवे एगंता, विभज्जमाणा अणेगंतो ॥१४॥ जह एए तह अण्णे, पत्तेयं दुण्णया णया सव्वे । हंदि हु मूलणयाणं, पण्णवणे वावडा ते वि ॥ १५ ॥ सव्वनयसमूहम्मि वि, णत्थि णओ उभयवायपण्णवओ। मूलणयाण उ आणं, पत्तेय विसेसियं बिंति ॥ १६ ॥ [कां०१ गा०१४-१५-१६]
[71] तम्हा सव्वे वि णया, मिच्छादिट्ठी सपक्खपडिबद्धा । अण्णोष्णणिस्सिया उण, हवंति सम्मत्तसब्भावा ॥२१॥ इत्यादि ॥२॥
[कां०१ गा०२१]
साम्यतां कथयन्नाह
नाप्रमाणं प्रमाणं वा, सर्वमप्यविशेषितम् ।
विशेषितं प्रमाणं स्यादिति सर्वनयज्ञता ॥३॥
नाप्रमाणमिति - सर्वं वाक्यमेकान्तेन अप्रमाणं न, वा अथवा प्रमाणमपि न, विधिनिषेधोपदेशः । प्रथमं तदेव प्रमाणम् । गुणवृद्धौ ध्यानलीनानां तदेवाप्रमाणम् । यच्चानेषणीयादिकं पूर्वमप्रमाणं तदेव गीतार्थादिषु प्रमाणम् । भगवतीटीकातो ज्ञेयम् । तथापि गाथा - ।
१. सर्व० पाठान्तरम् । २. पुण L.D.1. S.M. । ३. तत्रापि A.D.B.2. I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org