________________
सर्वनयाश्रयणाष्टकम् (३२)
२०५ धावन्तोऽपि नयाः सर्वे, स्युर्भावे कृतविश्रमाः । चारित्रगुणलीनः स्यादिति सर्वनयाश्रितः ॥१॥
धावन्तोऽपि नया इति- सर्वे नयाः धावन्तः- स्वस्वपक्षस्थापनपुरःसरा अपि भावे-शुद्धात्मधर्मणि कृतविश्रमाः स्युः-स्थिरा भवन्ति । अतः मुनि:-चारित्रगुणलीन:-चयरिक्तीकरणं चारित्रं तदेव गुणः, तत्र लीन:-वर्द्धमानपर्याय: सर्वनयाश्रितः स्यात् । द्रव्यनये-कारणत्वग्राहके, भावनये-तत्कार्यत्वग्राहके, क्रियानये-साधनोद्यमरूपे, ज्ञाननये-तद्विश्रामरूपे, आश्रितः-आसक्तः स्यात्-भवेदित्यर्थः । उक्तं चानुयोगद्वारे[129] सव्वेसि पि नयाणं बहुविहवत्तव्वयं निसामित्ता । तं सव्वनयविसुद्धं, जं चरणगुणट्ठिओ साहू ॥१॥
[सू० ६०६, प० १४१] अत उक्तं श्रीभगवतीटीकायाम्[48] जइ जिणमयं पव्वज्जह, ता मा ववहारणिच्छए मुयह ।
इक्केण विणा तित्थं, छिज्जइ अन्नेण उ तच्चं ॥ अतः साम्यं हितम्, पुनस्तदेव द्रढयतिपृथग् नया मिथः पक्ष-प्रतिपक्षकदर्थिताः । समवृत्तिसुखास्वादी, ज्ञानी सर्वनयाश्रितः ॥२॥
पृथग्नया इति- एते मिथ:-परस्परम्, पृथग्-भिन्न भिन्नम्, पक्षप्रतिपक्षकदर्थिताः-वादप्रतिवादकदर्थनाविडम्बिता नया दुर्नया इत्यर्थः । अत एव ज्ञानी यथार्थभासनया सर्वनयाश्रितः-सर्वनयमार्गसापेक्षावबोधमग्नो भवति । कथम्भूतो ज्ञानी ? समवृत्तिः-इष्टानिष्टत्वताभावः, तस्य सखास्वादनशीलः । उक्तं च
१. कृतविश्रामाः S.M.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org