________________
१७४
श्रीज्ञानमञ्जरी
रहितानां पुद्गलेषु भिन्नत्वाग्राह्यत्वेन त्यागवतां जगदेव न परिग्रहः, तत्र रमणाभावात् । उक्तं च श्रीविशेषावश्यके
[108]तम्हा किमत्थि वत्थं, गंथोऽगंथो व सव्वहा लोए ? । गंथोऽगंथो व मओ, मुच्छममुच्छाहिं निच्छयओ ॥२५७३ ॥ वत्थाइं तेण जं जं, संजमसाहणमरागदोसस्स । तं तमपरिग्गहो च्चिय परिग्गहो जं तदुवघाई ॥ २५७४ ॥ [विशेषा० गा० - २५७३-७४]
अत एव आत्मनः परभावरसिकत्वं परिग्रहः, ततः तद्धर्मत्वाभावात् आत्मस्वरूपरमणं युक्तम् ॥८॥
॥ इति व्याख्यातं परिग्रहत्यागाष्टकं पञ्चविंशतितमम् ॥ २५ ॥
अथ अनुभवाष्टकम् ॥ २६ ॥
श्रुताभ्यासपरिग्रहत्यागादयोऽप्यनुभवयुक्तस्य मोक्षसाधकाः, अनुभवशून्यस्य नेति तत्प्रतिपादनायानुभवाष्टकं निरूप्यते । अनुभवशून्यं ज्ञानम् उदकपयःकल्पम्, अनुभवयुक्तं तु पीयूषोपमम् । ज्ञानं तु सानुभवस्य । तथा च अनुयोगद्वारे वायणा - पुच्छणा - परिअट्टणाधम्मकहा- सर-अक्खरवंजणसुद्धा अणुप्पेहारहियस्स दव्वसुयम्, अणुप्पेहा भावसुयं" इत्यनेन भावश्रुतं तु संवेदनरूपं न तत्त्वनिष्पाद-कम्, स्पर्शरूपं तत्त्वनिष्पादकमिति, [109] हरिभद्रपूज्याः- तत्स्पर्शज्ञानम् अनुभवयुक्तस्यैव [ षोड० १२, श्लो०१५] तल्लक्षणं च योगदृष्टिसमुच्चयानुसारेण लिख्यते - यथार्थवस्तुस्वरूपोपलब्धिपरभावारमणस्वरूपरमणतदास्वादनैकत्वमनुभवः हेयोपादेयज्ञानसुखास्वादरूपानुभवः । नामतः अभिधानम्, स्थापनात स्थाप्यमानम्, द्रव्यानुभवः भुज्यमानशुभाशुभविपाकेषु अनुपयोगः अणुवओगो दव्वं इति वचनात् भावानुभवः, अप्रशस्तः सांसारिकविषयकषायानामनुभवैकत्वम्, प्रशस्तः अर्हद्गुणानुरागैकत्वम् । शुद्धानुभवः स्वरूपानन्त
Jain Education International
-
For Private & Personal Use Only
www.jainelibrary.org