SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ परिग्रहाष्टकम् (२५ ) १७३ पत्तसुक्कज्झाणो सिद्धो । ताओ वि सिद्धाओ || एवं रागत्यागः कार्यः । तर्हि परिग्रहरागो हि नात्महिताय कदापि ॥६॥ चिन्मात्रदीपको गच्छेन्निर्वातस्थानसंनिभैः । निष्परिग्रहता स्थैर्यम्, धर्मोपकरणैरपि ॥७॥ चिन्मात्रेति - अप्रमत्तसाधुः चिन्मात्रदीपक: - ज्ञानमात्रस्य प्रदीपः गच्छेत्-लभेत कै: ? निर्वातस्थानसंनिभैः - पवनप्रेरणारहितस्थानसंयोगैः । तथा - ज्ञानदीपकस्य 'स्थैर्यं' - स्थिरत्वं निष्परिग्रहता - परिग्रहाभाव एव साधयति । इत्युपदिष्टे कश्चिद् धर्मोपकरणस्यापि परिग्रहत्वं जानन् तत्परिहाराय यतते । अतो धर्मोपकरणैः अपि स्थैर्यं वर्द्धते इति [107] धर्मसंग्रहण्यां सर्वमप्युक्तम्- [ गा० १०२८-२९] शीतातपदंशादिपरीषहोदये स्वाध्यायव्याघाते निःस्पृहत्वेन धर्मोपकरणग्रहणं समाधिस्थिरताहेतु: अमूच्छितस्य न तत्परिग्रहता । नहि पुद्गलजीवयोः एकक्षेत्रावगाहिता परिग्रहः । किन्तु चेतना तद्रागद्वेषपरिणतपरिग्रहग्रहत्वं प्राप्नोति । अत: उपकरणानां निमित्तता एव तत्त्वसाधने । यथार्हद्गुरुसंसर्गः निमित्तम्, एवम् आत्मनि स्वरूपस्थे न पुद्गलस्कन्धा बाधकाः । आत्मैव तदनुगतः बाधकत्वं करोति ||७|| मूर्च्छाच्छन्नेधियां सर्वम्, जगदेव परिग्रहः । मूर्च्छया रहितानां तु, जगदेवापरिग्रहः ॥८॥* ॥ इति परिग्रहाष्टकम् ॥ २५ ॥ मूर्च्छाच्छेन्नेति-मूर्च्छा-ममत्वं तेन छन्ना- छादिता धीः- बुद्धिः येषां ते तेषां मूर्च्छामग्नानां स्वकीयतया अप्राप्तमपि सर्वं जगत् परिग्रह एव । तस्य स्वामित्वभोगित्वसुखबुद्धेः समन्वितत्वात् । तु पुनः मूर्च्छया १. परिग्रहत्वं A.D., V. 1. 1 २. च्छिन्न० V.1.2., A.D. । ३. च्छिन्नेतिV.2., A.D. । ४. च्छिन्ना V. 1.2., A.D., S.M., B.1.2. । ★ ॥ २००॥ इयत्परिमिताः श्लोकाः संजाताः । V. 2. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002684
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
AuthorRamyarenu
PublisherKailashnagar Jain Sangh Surat
Publication Year2008
Total Pages506
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Spiritual
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy