________________
परिग्रहाष्टकम् (२५)
यस्त्यक्त्वा तृणवद् बाह्यमान्तरं च परिग्रहम् । उदास्ते तत्पदाम्भोजम्, पर्युपास्ते जगत्त्रयी ॥३॥
यस्त्यक्त्वेति - यः - साधुः बाह्यं - धनादि, आन्तरं २ - रागादि परिग्रहम्, तृणवत् त्यक्त्वा - संत्यज्य उदास्ते - उदासीनो भवति किं परिग्रहेण ? मोहकारणेन व्यासङ्गमूलेन आत्मपलिमन्थैकल्पेन वस्तुतः निस्सारेण । न एष मम, नाहमनेन सुखी, मदिरामत्तपङ्कावलेपतुल्येन, अहं तु ज्ञानाद्यनन्तगुणपूर्णः कथं पुद्गलेषु रमे ? इत्यादिभावनया त्यक्तपरिग्रहः । तत्पदाम्भोजं जगत्त्रयी - असुरनरामरश्रेणिः पर्युपास्तेसेवते इत्यर्थः, स त्रिजगद्वन्द्यो भवति, तेन स्वरूपानन्दरसिकानां न परिग्रहासक्तिः ॥३॥
पुनः कस्य बाह्यत्यागेन निर्ग्रन्थत्वमानिनः शिक्षयतिचित्तेऽन्तर्ग्रन्थगहने, बहिर्निर्ग्रन्थता वृथा ।
त्यागात्कञ्चुकमात्रस्य, भुजगो न हि निर्विषः ॥४॥
चित्तेऽन्तर्ग्रन्थ इति - अन्तः - चित्ते चेतनापरिणतौ, ग्रन्थः तेन गहने परिग्रहलालसामग्ने, बहिर्निर्ग्रन्थता वृथा - निष्फला, यथा- कञ्चुकमात्रत्यागाद् भुजग:-सर्पः निर्विषो नहि भवति । एवं बाह्यत्यागेन त्यागी न भवति, अन्तर्ममत्वपरिहारेण त्यागो भवति ॥४॥
त्यक्ते परिग्रहे साधोः, प्रयाति सकलं रजः । पालित्यागे क्षणादेव, सरसः सलिलं यथा ॥ ५ ॥
१७१
त्यक्ते इति साधोः परिग्रहे त्यक्ते सति सकलं रजः -- कर्मसमूह: प्रयाति - गच्छति । दृष्टान्तयति - सरसः सलिलं सरः पानीयं पालित्यागे अर्थात् पालिक्षये क्षणादेव क्षयं याति एवम् । अतः सामान्यपरिणतौ लोभपरित्यागेन' अनुक्रमेण कर्माभावता भवति ॥५॥
१. मन्तरं S.M., V.2., B. 1. । २. अन्तरं S. M., V. 2., B. 1. । ३. परिपन्थि S. M. 1. ४ रमामि सर्वप्रतिषु । ५. परित्यागे V. 1.A.D. I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org