________________
१७०
श्रीज्ञानमञ्जरी दानत्वात् त्याग एव । नयव्याख्यायां-जीवाजीवेषु परिग्रहत्वं संग्रहेण । भाष्ये च- द्वितीयपञ्चमाश्रवौ सर्वद्रव्येषु इति वाक्यात् व्यवहारपरिग्रहः धनादिकयुक्तः । ऋजुसूत्रेण तदभिलाषी, शब्दनयेन पुण्याशंसा इत्यादिना भावनीयम् । अतः तदुपदेशः
न परावर्त्तते राशेर्वक्रतां जातु नोज्झति । परिग्रहग्रहः कोऽयम् ?, विडम्बितजगत्त्रयः ॥१॥
न परावर्त्तते इति- राशेः-अनादिराशितः परिग्रहो न परावर्त्तते-न निवर्त्तते, पुनः वक्रतां जातु-कदाचित् न उज्झति-न त्यजति, अत एव हे आत्मार्थिन् ! अयं दुःखमूलः २परिग्रहग्रहकः विडम्बितजगत्त्रयः त्रैलोक्यविडम्बनाहेतुः ईदृक् परिग्रहस्य कः दृढानुराग इति ॥१॥
परिग्रहग्रह्मवेशाद्, दुर्भाषितरजःकिराः । श्रूयन्ते विकृताः किं न ?, प्रलापा लिङ्गिनामपि ॥२॥
परिग्रहेति- लिङ्गिनामपि-जैनवेषविडम्बकानामपि प्रलापा:असम्बद्धवचनव्यूहाः किं न श्रूयन्ते ? अपि तु श्रूयन्ते एव । कथम्भूताः प्रलापाः ? परिग्रहग्रहावेशात्-परिग्रहस्य ग्रहः ममत्वं तस्यावेशः, तस्मात् दुर्भाषितम्-उत्सूत्रवचनमेव रजसः-किराः समूहाः, अत एव विकृताःविकारमया इति । एवं हि परिग्रहाभिलाषमग्ना ज्ञानपूजनाधुपदेशेन परिग्रहमेलनासक्ताः उत्सूत्रं वदन्ति, पोषयन्ति विषयान्, परिग्रहीकुर्वन्ति ज्ञानोपकरणानिरे, महान्तयन्ति (?) ज्ञानोपकरणैः । उक्तं च उपमितिभवप्रपञ्चायाम्- "स जातः कदाचिल्लब्धार्यकुलश्रावकसामग्रीसंयोगः श्रुततत्त्वोपदेशाप्तवैराग्यगृहीतव्रतः मुनिसंघसंयुतः श्रुतलाभेन संपूज्यमानः श्रावकवर्गः ज्ञानभक्तोपरचितोल्लोचादिसदुपकरणः तैरेव रमणीयकताममत्वाहंकारदूषितः तीव्रज्ञानावरणीयकर्मवशात् पतितो निगोदे अनन्तभवभ्रमणरूपे । इत्यावर्तस्वरूपं भावनीयमात्महिताय सद्भिः । अतो निवारणीयमेव धर्मलिङ्गतो विषयपरिग्रहपोषणादिकम् ॥२॥
१. परिग्रहयुक्तस्य S.M. । २. परिग्रहग्रहः कः V.1.2., B.2.,S.M. विना । ३. ज्ञानोपकरणान् सर्वप्रतिषु । ४. धर्मलिङ्ग B.1.2., V.2., A.D. I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org