________________
१५२
,
जातिचातुर्यहीनोऽपि कर्मण्यभ्युदयावहे । क्षणाद् रङ्कोऽपि राजा स्यात्, छत्रच्छन्नदिगन्तरः ॥३॥ जातिचातुर्येति—कश्चिद् रङ्कोऽपि क्षणात् - क्षणमात्रेण, अभ्युदयावहे - शुभोदर्के कर्मणि राजा स्यात् - भवेत् । कथम्भूतः रङ्कः ? जाति:- मातृका चातुर्यं - दक्षत्वं ताभ्यां हीन: - रहितः अपि भूपो भवति । किम्भूतो राजा ? छत्रेण- (आतपत्रेण), छन्नं- छादितम् आक्रान्तं दिगन्तरम् तम् आक्रान्तं दिगन्तरं येन स इति भूचक्री अखण्डाज्ञावान् भवति विपाकपाकेन । तत्र नाश्चर्यम् । दुर्लभं हि सम्यग्दर्शनज्ञानचारित्रं शुद्धात्मधर्मम् ॥३॥ विषमा कर्मणः सृष्टिर्दृष्टा करभपृष्ठवत् । जात्यादिभूतिवैषम्यात्, का रतिस्तत्र योगिनः ॥४॥
विषमा कर्मण इति-कर्मणः सृष्टिः- रचना करभपृष्ठवत् विषमा दृष्टा । कस्मात् ? जात्यादिभूतिवैषम्यात् - जाति:- कुलम् उच्चनीचादि संस्थानवर्ण-स्वर-सम्पदादिभेदाद् महद् वैषम्यं तस्मात् । उक्तं प्रशमरतौ[94] 'देशकुलदेहविज्ञानायुर्बलभोगभूतिवैषम्यम् ।
दृष्ट्वा कथमिह विदुषाम् भवसंसारे रतिर्भवति ? ॥१०२॥ इति । तत्र शुभोदये- ऐश्वर्यादिकाले अनेकाशुद्धाध्यवसाये-परसंयोगोत्पत्तिरूपे, योगिनः- रत्नत्रयीपरिणतस्य का रति: ? न कापि । उक्तं चसुभेजोगो रइहेऊ, असुहजोगो अरइउत्ति ।
रागो वड्ढइ तेणं, अवरो दोसं विवई ॥१॥ सिवमग्गविग्घभूया, कम्मविवागा चरित्तबाहकरा । धीराणं समया तेहिं, चायपरिणामओ चवई ॥२॥ इति ४॥ कर्मस्वरूपस्य मोक्षमार्गध्वंसित्वं दर्शयति
श्रीज्ञानमञ्जरी
आरूढाः ३ प्रशमश्रेणिम्, श्रुतकेवलिनोऽपि च । भ्राम्यन्तेऽनन्तसंसारमहो दुष्टेन कर्मणा ॥५॥
१. जातिकुल० सर्वप्रतिषु । २. सुभा. S. M. V. 2. । ३. आरूढः V.1. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org