________________
कर्मविपाकचिन्तनाष्टकम् (२१)
१५१
प्रशंसादयः । संग्रहतः तद्योग्यताविशिष्टौ जीवपुद्गलौ । व्यवहारतः गृह्यमाणवर्गणासमूहः, प्राणातिपातादयश्च । ऋजुसूत्रतः बन्धहेतुपरिणता हेतुपरिणामाः सत्तास्थाः कर्मदलिका वा । शब्दतः चलोदीरणादिपूर्वका: विपाकगतदलिका: । समभिरूढतः ज्ञानाद्यनन्तगुणानां मध्ये यद्गुणरोध: तत्तस्यावरणम् । एवंभूततः स्वकर्तृता - ग्राहकता - वेत्तृता - व्यापकता-कर्मकार्यकरणप्रवृत्ता' इति । सिद्धसेनास्तु - " कर्मकर्तृता ग्राहकता शब्दनये, वेदकता व्यापकता समभिरूढनये, गुणावरणत्वम् एवंभूतनये," इत्यादि भावना कार्या । तत्र विपाकप्राप्ते कर्मणि शुभाशुभोदये माध्यस्थ्यं करणीयं तदर्थमुपदेश:
दुःखं प्राप्य न दीनः स्यात्, सुखं प्राप्य च विस्मितः । मुनिः कर्मविपाकस्य जानन्परवशं जगत् ॥१॥
1
दुःखं प्राप्य न दीनः स्यादिति - मुनि:- तत्त्वरसिकः दुःखम्असातादि प्राप्य दीनः न स्यात् कृतभोगे का दीनता ? करणकाले अविचारितकरणेन तद्विपाक ईदृशः । एवं च पुनः सुखं शातादि राज्यैश्वर्यादि प्राप्य विस्मितो न स्यात् । को विस्मय: ५ ? स्वगुणावरणभूते विपाकमिष्टे कर्मणि । जगत्-लोकं कर्मविपाकस्य- शुभाशुभोदयस्य, परवशं - पराधीनं जानन् । सर्वं जगत् कर्माधीनं तत्त्वज्ञानी एवं कर्मविपाकमवगणय्य तत्त्वसाधने यत्नवान् भवति ॥ १ ॥
येषां भ्रूभङ्गमात्रेण, भज्यन्ते पर्वता अपि । तैरहो कर्मवैषम्ये, भूपैभिक्षापि नाप्यते ॥२॥
येषां भ्रूभङ्गेति - येषां पुरुषाणाम्, भ्रूभङ्गमात्रेण - भ्रूविक्षेपेण, पर्वता - गिरिवरा अपि भज्यन्ते, तैर्भूपैः (कर्मवैषम्ये - ) कर्मणां वैषम्यं कर्मजनिता विषमता तस्मिन् कर्मोदये दुःखावस्थायां भिक्षापि न आप्यते-न प्राप्यते, इति शुभाशुभविपाकवैचित्र्यम् ॥२॥
Jain Education International
-
१. प्रवृत्त्या B.2, V.2, S.M. I २. वश्यं B.1 । ३. स्वकृत० V.1A.D. I ४. सुतादि A.D. V. 1. विना । ५. विश्रयः V.1.A.D. I
For Private & Personal Use Only
www.jainelibrary.org