________________
१३०
तूलवल्लघवो मूढा, भ्रमन्त्य भयानिलैः । नैकं रोमापि तैर्ज्ञान-गरिष्ठानां तु कम्पते ॥७॥
तूलवल्लघव इति-—- मूढा:- तत्त्वज्ञानविकलाः, तूलवल्लघवः - अर्कतूलवल्लघवः, अभ्रे-आकाशे, भयानिलैः - भयपवनैः प्रेरिता भ्रमन्ति । ज्ञानगरिष्ठानामेकं रोमापि तैः पवनैर्न कम्पते । इत्यनेन सप्तभयसन्निधाने मूढा:-परभावात्मत्वज्ञानमुग्धाः तद्वियोगभयेन कम्पमानाः इतस्ततो भ्रमन्ति । ये चासङ् ख्यातप्रदेशानन्तज्ञानमयस्यात्मनः स्वरूपावलोकिनो ज्ञानगरिष्ठाः अविनाशिचैतन्यभावरक्ताः तेषामध्यवसायरूपं रोमापि न कम्पते । किञ्च गत्वरैः गतैरिति अध्यात्माभ्यासैकत्वानन्दानन्दिताः सदा निर्भयाः स्वरूपे स्थिराः तिष्ठन्ति ||७|
1
चित्ते परिणतं यस्य, चारित्रमकुतोभयम् । अखण्डज्ञानराज्यस्य, तस्य साधोः कुतो भयम् ॥८॥ ॥ इति निर्भयाष्टकम् ॥ १७ ॥
श्रीज्ञानमञ्जरी
चित्ते इति-यस्य-निर्ग्रन्थस्य, अकुतोभयं न विद्यते कुतः कस्माद् भयं यस्य तत् चारित्रं - स्वरूपस्थिरत्व- रम्यरमणत्वलक्षणं परिणतं चेतनावीर्यादिसर्वगुणेषु तन्मयीभूतम्, तस्य साधोः कुतः - कस्माद् भयं ? न कस्मादपि । कथम्भूतस्य मुनेः ? अखण्डज्ञानराज्यस्य- अचूर्णितज्ञानराज्यस्य इत्यनेन वचनधर्मक्षमामार्दवार्जवपरिणतस्य शुद्धज्ञानरम्यरमणस्य साधोः द्रव्यभावमुक्तियुक्तस्य परमाकिञ्चनस्य न भयम् । यथा श्रीकेशि - गौतमाध्ययने
3
,
[77] एगप्पो अजिए सत्तू, कसाया इंदियाणि य ।
ते जिणित्तु जहानायम्, विहरामि अहं मुणी ॥ ३८ ॥
Jain Education International
१. तद्वियोगेन B. 1. 2, M.S, V. 2 । २. स्थिरत्वलक्षणं B. 1.2., V. 2., S.M.I
३. परिणामा० S. M., V.2.
I
For Private & Personal Use Only
www.jainelibrary.org