SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ निर्भयाष्टकम् (१७) १२९ | एकं ब्रह्मास्त्रमिति - मुनिः - स्वरूपरतः परभावविरतः, न बिभेति-न भयवान् भवति । किं कुर्वन् ? मोहचमूं निघ्नन् - मोहसैन्यध्वंसं कुर्वन् । किं कृत्वा ? ब्रह्मास्त्रं - ब्रह्मज्ञानमात्मस्वरूपावबोधः, तदेवास्त्रं - शस्त्रमादाय - गृहीत्वा । क इव ? संग्रामस्य शीर्षं तत्र तिष्ठतीति संग्रामशीर्षस्थ : नागराट् - नागराजो १ गजश्रेष्ठ इव । यथा गजश्रेष्ठः संग्रामे न बिभेति तथा मुनि: कर्मपराजये प्रवृत्तो न भयवान् भवति । यो हि स्वरूपासक्तः तस्य परभावे ध्वंसनोद्यतस्य भयं हि परसंयोगविनाशे भवति तद्विनाशश्चास्य क्रियमाण एव अतो न भयं वाचंयमस्य शरीरादिसर्वपरभावविरतत्वात् ॥४॥ मयूरी ज्ञानदृष्टिश्चेत्, प्रसर्पति मनोवने । वेष्टनं भयसर्पाणाम्, न तदानन्दचन्दने ॥५॥ मयूरीति - मनोवने- चित्तोद्याने, चेत् यदि ज्ञानदृष्टि :- स्वभावपरभावविवेचनदृष्टिः, मयूरी प्रसर्पति स्वेच्छया विचरति सति (ती) तदा आनन्दचन्दने- स्वरूपानुभवानन्दचन्दने, भयसर्पाणां वेष्टनं न भवतीत्यर्थः । इदमुक्तं भवति यदा ज्ञानेन स्वपरयोर्विभेदे कृते स्वस्यामूर्त्तचिद्घनत्व - निर्धारि परसंयोगस्य परत्वनिर्धारेि जाते भयस्योदयो न भवति ॥५॥ कृतमोहास्त्रवैफल्यम्, ज्ञानवर्म बिभर्ति यः । " क्व भीस्तस्य क्व वा भङ्गः कर्मसङ्गरकेलिषु ॥६॥ कृतमोहास्त्रेति - तस्य - स्वरूपानन्दभोक्तुः कर्मसङ्गरकेलिषु - कर्मक्षयकरणसंग्रामे, भी:- भयं क्व ? भङ्गः क्व ? नैवेति । तस्य कस्य ? यः कृतमोहास्त्रवैफल्यं कृतं मोहास्त्रस्य वैफल्यं निष्फलत्वं येन एवंविधं ज्ञानवर्म - ज्ञानसन्नाहं बिभर्ति धत्ते । सर्वमोहविदारणदारुणज्ञानसन्नाहधरस्य, कर्मकृतस्वगुणघातभीः २ क्व ? इदमुक्तं भवति - येन नयविभजनपरीक्षितः स्वपरपदार्थसार्थः तस्य मोहादीनां भयं न ॥६॥ १.राजा B.2. L.D.1. S.M. V.1 । २. भीतं B.1.2, L.D.1., V.1.,S.M.I Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002684
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
AuthorRamyarenu
PublisherKailashnagar Jain Sangh Surat
Publication Year2008
Total Pages506
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Spiritual
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy