SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ श्रीज्ञानमञ्जरी योगव्यवच्छेदार्थः, तृप्तिः ज्ञानिनः सम्यगवबुद्धतत्त्वस्य-तैः, स्पर्श-रसवर्ण- गन्ध-शब्दैः किम् ? न किमपि । यः स्वरूपानुभवी स विभावहेतुभूतान् इन्द्रियविषयान् नावगच्छति । कथंभूता स्वगुणैः तृप्तिः ? आकालं सर्वमप्यनागतकालमविनश्वरी - विनाशरहिता, सहजत्वेन नित्या इत्यर्थः । स्पर्शज्ञानवतो यैः - शब्दादिभिः इत्वरी - अल्पकालीया औपचारिकी तृप्तिर्भवेत् तैः - विषयैः परविलासैः किम् ? न किमपि । परविलासाः बन्धहेतवः एव । अत्र भावना - अनेकशो भुक्ता एते, तथापि नाप्तमात्मस्वरूपम्, न च ते सुखहेतवः, किन्तु सुखत्वबुद्धिरेव कृतका:, तेन तद्विषयाभिमुखतैव न स्वरूपरसिकानामतः आत्मगुणैस्तृप्तिर्विधेया ॥२॥ तामेव भावयति ७२ या शान्तैकरसास्वादाद्, भवेत्तृप्तिरतीन्द्रिया । सा न जिह्वेन्द्रियद्वारा, षड्रसास्वादनादपि ॥ ३ ॥ ॥३॥ या शान्तैकेति - या अतीन्द्रिया - इन्द्रियविषयग्रहणरहिता आत्मज्ञानभोक्तृत्ववेद्या स्वरूपानुभवलक्षणा तृप्तिः, शान्तैकरसास्वादात्कषायोद्भवरहितसाम्यरसास्वादनात् भवेत्-लभेत सा - तृप्तिः षड्रसा - स्वादनात्-तिक्ताम्लमधुरकषायकटुक्षाररसभोजनात् जिह्वेन्द्रियद्वारा-रसनेन्द्रियद्वारा न भवति । रसनेन्द्रियेण पौद्गलिकरसानुभवः, आत्मा च स्वरूपानुभवी पुद्गलगुणानां ज्ञाता, न भोक्ता । पुद्गलगुणा अभोज्या एव । मोहोदयाद् आहारसंज्ञातः रसास्वादनं न स्वरूपतः । स्वरूपं च ज्ञानानुभवलक्षणमतः आत्मानुभवा तृप्तिः, न पौद्गलिकेति ॥ ३ ॥ २ संसारे स्वप्नवन्मिथ्या, तृप्तिः स्यादाभिमानिकी । तथ्या तु भ्रान्तिशून्यस्य, सात्मवीर्यविपाककृत् ॥४॥ संसारे इति - संसारे द्रव्यतः चतुर्गतिरूपे, भावतः मिथ्यात्वादिविभावलक्षणे संसरणे, आभिमानिकी - मिथ्याभिमानोत्पन्ना पुद्गलादिप्राप्तमान्यतारूपा तृप्तिः, सा स्वप्नवत् मिथ्या - वितथा कल्पनारूपा एव, १. अल्पकाली सर्वप्रतिषु २. अभेद्य D.1. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002684
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
AuthorRamyarenu
PublisherKailashnagar Jain Sangh Surat
Publication Year2008
Total Pages506
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Spiritual
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy