________________
००
तृप्त्यष्टकम् (१०)
पीत्वा ज्ञानामृतं भुक्त्वा, क्रियासुरलताफलम् । साम्यताम्बूलमास्वाद्य, तृप्ति याति परां मुनिः ॥१॥
पीत्वा ज्ञानामृतमिति-मुनि:-सावद्याभाषी स्वात्मावलोकनलीनः, पराम्-उत्कृष्टां लौकिककुप्रावचनिकेतराम्, तृप्ति-सन्तोषावस्थाम, यातिप्राप्नोति लभते इत्यर्थः । किं कृत्वा ? ज्ञानामृतं- ज्ञानं-यथार्थस्वपरपदार्थस्वरूपावभासनरूपं तदेवामृतं पीत्वा शुद्धात्यन्ताविच्छिन्नचिद्धारापरीक्षितहेयोपादेयवस्त्ववलोकनोपयोगं पीत्वा, क्रिया-सद्योगप्रवृत्तिः । तत्त्वप्राग्भाव-विभावाभावभावितचेतनाश्रद्धानपूर्वका या वीर्यप्रवृत्तिः सा एव सुरलता-कल्पवल्ली तस्याः फलं स्थिरत्वेन 'तत्त्वानुभवलक्षणं भुक्त्वा साम्य-समता, शुभाशुभेषु पुद्गलादिषु तुल्यत्वं तदेव ताम्बूलं स्वादिमोपमानमास्वाद्य, मुनिः परामुत्कृष्टां तृप्ति याति इत्यन्वयः । सांसारिकोपाधिपुद्गलोद्भवविभावभावितात्मनोऽनादिमिथ्याज्ञानासत्क्रिया - रक्तद्विष्टतासक्ताः जगदुच्छिष्टाभोग्यवर्णाद्यनुभवमग्नत्वेन या आरोपजा तृप्तिः न सा तृप्तिः, यतः तत्प्राप्तावपि तृष्णा प्रगुणीभवति, तेन न तृप्तिः, स्वतत्त्वानन्दभोगेनैव तृप्तिः । अत एव सत्पुरुषास्त्यजन्ति दामिनीचलान् कामिनीविलासान्, हीलयन्ति उदयागतान् सद्विपाकान्, निःसङ्गयन्ति रङ्गाभिष्वङ्गिसङ्गसङ्गान्, विरङ्गयन्ति अङ्गरागान्, श्वसन्ति स्वाध्यायाध्ययनेन तत्त्वश्रवण-मनन-निदिध्यासन-परिशीलनेषु, धन्यां मन्यन्ते परमात्मावस्थामिति ॥१॥
पुनरपि नित्यां तृप्ति व्याख्यातुमाहस्वगुणैरेव तृप्तिश्चेदाकालमविनश्वरी ।
ज्ञानिनो विषयैः किं तै-थैर्भवेत्तृप्तिरित्वरी ॥२॥ स्वगुणैरिति चेत्-यदि स्वगुणैः- चैतन्यस्य स्वद्रव्य-स्वक्षेत्र-स्वकाल-स्वभावभूतैः अमूर्ताऽसङ्गाऽनाकुलचिदानन्दरूपैः । एव-अन्य१. स्वानु० L.D.1 । २. हेल० V.1., L.D.1 । ३. विशन्ति L.D.1 । ४. चेतनस्य S.M. I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org