________________
त्यागाष्टकम् (८)
अथाष्टमं त्यागाष्टकम् |
इन्द्रियजयो हि त्यागाद् वर्द्धते, अतः आत्मनः स्वरूपादन्यत् १ परभावत्वं त्याज्यम्, तेन त्यागाष्टकं लिख्यतेऽष्टमम् । त्यागः - त्यजनं त्यागः सर्वेषां परभावत्यागः सुखम् त्यागः उत्सर्जनम्, तत्र स्वद्रव्यस्वक्षेत्र-स्वकाल-स्वभावत्वेन स्यादस्तीति प्रथमभङ्गगृहीतात्मपरिणामस्वात्मनि वर्त्तमानः स्वधर्मः तस्य समवायत्वेनाभेदात् त्यागो न भवति, अस्त्येव तदात्मनि, उपादेयत्वं तु सम्यग्ज्ञानादिसाधनवृत्त्या विस्मृतस्य स्मरणात् तिरोभूतस्याविर्भावात् अभुक्तस्य भोगात् शेषाणां सर्वसंयोगिकतया ज्ञानात् हेयतैव यद्यपि देवादिनिमित्तानां शुभभावादीनां ध्यानादीनामात्मसाधनपरिणामानामनाद्यशुद्धपरिणतिग्रहणवृत्तिवारणाय ग्रहणता कृता तथापि स्वसिद्धावस्था गता न, इति उत्सर्गमार्गेण न ग्रहणता अनादिमिथ्यादृष्टिः कुदेवादिरक्तः स च सम्यग्दर्शनबलेन निर्धारितस्वधर्मरुचिः शुद्धदेवादीन् गृह्णाति तथापि परत्वज्ञप्तिरेव, अप्रशस्तत्यागः प्रशस्तग्रहणम्, प्रशस्तत्यागः स्वसाधनापरिणतिग्रहणम्, स्वसाधनपरिणतित्यागः स्वसत्ताधर्मग्रहणमिति क्रमः परमसिद्धेः, नामत्यागः शब्दालापरूपः, स्थापनात्यागः दशयतिधर्मपूजनादौ स्थाप्यमानः, द्रव्यत्यागः द्रव्येण बाह्यवृत्त्या इन्द्रियसुखाभिलाषेण उपयोगभूतेन वा यस्त्यागः द्रव्यत्यागः, द्रव्यस्य द्रव्याणाम् आहारोपधिप्रमुखस्य त्यागः, द्रव्यरूपः त्यागः द्रव्यत्यागः, स च आगमत: द्रव्यत्यागस्वरूपज्ञानी अनुपयुक्तः, नोआगमतः ज्ञशरीरम्, त्यागस्वरूपज्ञायकस्य शरीरम्, भव्यशरीरं त्यागस्वरूपज्ञायकभावी लघुशिष्यादिः, तद्व्यतिरिक्तस्तु द्रव्यत्यागः पुद्गलाशंसा - इहलोकाशंसा-परलोकाशंसारहितः स्वरूपसाधनाभिमुखी बाह्योपधिशरीरान्नपानस्वजनादित्यागः इति। भावतः अभ्यन्तररागद्वेषमिथ्यात्वाद्याश्रवविभावपरिणतित्यागः, आत्मनः क्षायोपशमिकानां ज्ञानादीनां परभावतो निवृत्ति: भावत्यागः, सम्यग्ज्ञानपूर्वकचारित्रवीर्यसंकरजन्यः आत्मपरिणामः, नामस्थापनां
१. परभावं सर्वप्रतिषु । २. शुभाचारादीनां B.1.2.,A.D.I
Jain Education International
५५
For Private & Personal Use Only
तत्र
www.jainelibrary.org