SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ५४ श्रीज्ञानमञ्जरी एव महाचक्रधरा वासुदेवाः मण्डलिकादयः कण्डरीकादयश्च विषयव्यामोहितचेतना नरके दीनावस्थां प्राप्ताः । किं बहुना ? मा कुरुध्वं विषयविषसङ्गमम् ॥७॥ विवेकद्विपहर्यक्षैः, समाधिधनतस्करैः । इन्द्रियैर्न जितो योऽसौ, धीराणां धुरि गण्यते ॥८॥ ॥ इति इन्द्रियजयाष्टकम् ॥ ७ ॥ , विवेकेति - विवेक:- स्वपरविवेचनम् [ स एव द्विपः- गजः ] तद्धाते हर्यक्षतुल्यै:- सिंहोपमैः समाधिः - स्वरूपानुभवलीलाविश्रान्ति:, [स] एव धनं-सर्वस्वम्, तद्हरणे तस्करास्तैः एवमिन्द्रियैः यः असौ पुरुषः नेमि - गजसुकुमालादिसदृशैः न जितः - इन्द्रियाधीनो न जितः सः पुरुषः धीराणां धुरि - आदौ गण्यते - श्लाघ्यते । उक्तं चः , , धन्यास्ते ये विरक्ता गुरुवचनरतास्त्यक्तसंसारभोगाः, योगाभ्यासे विलीना गिरिवनगहने यौवनं ये नयन्ति । तेभ्यो धन्या विशिष्टाः प्रबलवरवधूसङ्गपञ्चाग्नियुक्ताः नैवाक्षौघे प्रमत्ताः परमनिजरसं तत्त्वभावं श्रयन्ति ॥ १ ॥ अहह पूर्वभवास्वादितसाम्यसुखस्मरणेन प्रणयन्ति अनुत्तरविमानसुखलवसत्तमाः इन्द्रादयो हि विषयस्वादत्यागासमर्थाः लुठन्ति भूपीठे मुनीनां चरणकमलेषु । अतः अनाद्यनेकशः भुक्तविषयाः वारणीयाः । तत्सङ्गोऽपि न विधेयः । न स्मरणीयः पूर्वपरिचय: । प्रतिसमयं दुर्गञ्छनीया एव एते संसारबीजभूताः इन्द्रियविषयाः । अत एव निर्ग्रन्था निवर्त्तयन्ति कालं वाचनादिना तत्त्वावलोकनेहादिषु । उक्तं च- " निम्मलनिक्कलनिस्संगसिद्धसब्भावफासणा कइया" इत्यादि । रुच्या रत्नत्रयीपरिणताः तिष्ठन्ति स्थविरकल्पजिनकल्पेषु, सर्वैरपि भव्यैरेतदेव विधेयम् ॥८॥ ॥ इति व्याख्यातमिन्द्रियजयाष्टकं संपूर्णम् ॥ ७ ॥ १. गुण्यते B. 1.2., S. M., V. 1. 1 २. नैवासक्ताः V.2 | Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002684
Book TitleGyansara Gyanmanjarivrutti
Original Sutra AuthorYashovijay Upadhyay, Devvachak
AuthorRamyarenu
PublisherKailashnagar Jain Sangh Surat
Publication Year2008
Total Pages506
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Spiritual
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy