________________
५०
श्रीज्ञानमञ्जरी जयोऽपि भावजयहेतुत्वात् अभ्यस्यः । भावजयस्तु स्वधर्मत्वात् साध्य एव । तदर्थमुपदेशः
बिभेषि यदि संसारान्मोक्षप्राप्ति च काक्षसि । तदेन्द्रियजयं कर्तुम्, स्फोरय स्फारपौरुषम् ॥१॥
बिभेषि यदीति-हे भव्य ! यदि त्वं संसारात् बिभेषि-भयं प्राप्नोषि, च-पुनः, मोक्षः-सकलकर्मक्षयलक्षणः, तस्य प्राप्तिस्तां काङ्क्षसि-अभिलषसि, तदा इन्द्रियजयं कर्तुं स्फारपौरुषं-देदीप्यमानं पराक्रमम्, स्फोरय-प्रवर्त्तयस्व, अतः महाकदर्थनाकन्दरूपात् भव'कूपोद्विग्नः शुद्धचिदानन्दाभिलाषी जीवः हालाहलोपमानिन्द्रियविषयांस्त्यजति । उक्तं च उत्तराध्यनने[25] *सलं कामा विसं कामा, कामा आसीविसोपमा । कामे पत्थेमाणा, अकामा जंति दुग्गइं ॥५३॥
[अ० ९ गा० ५३] वृद्धास्तृष्णाजलापूर्णैरालवालैः किलेन्द्रियैः ।। मूर्छामतुच्छां यच्छन्ति, विकारविषपादपाः ॥२॥
वृद्धाः इति-किल इति सत्ये, इन्द्रियैः-विषयभोगरसिकै: आलवालैः वृद्धा:-महत्त्वमापन्नाः, विकारविषपादपाः-विकारा एव विषवृक्षाः अतुच्छामत्यन्तां मूछौं यच्छन्ति-मुह्यतां ददति । इत्यनेन अनादिस्वरूपयुतानां-परभावरमणाभोग्याभोग्यचेतनानां विकारविषवृक्षाः इन्द्रियैः-स्पर्शनादिभिः विषयग्राहकैः प्रवर्द्धमानाः महामोहं कुर्वन्ति, किंभूतैः आलवालैः ? तृष्णाजलापूर्णैः-तृष्णा-लोभवैकल्यं लालसा, तद्रूपेण जलेन आपूर्णै:-भृतैः इत्यर्थः, तृष्णाप्रेरितानि एव इन्द्रियाणि धावन्ति । तृष्णाया आनन्त्यम्[26] सुवण्णरुप्पस्स य पव्वया भवे,
सिया हु केलाससमा असंखया। १. कूपाद् विग्नः A.D. I ★ इन्द्रियपराजयशतकम् गा०२८ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org