________________
४९
इन्द्रियजयाष्टकम् (७) भ्यामुपकारीति लब्धिः, उपयोगस्तु भावेन्द्रियं भवति, लब्धिः तदावरणीयमतिज्ञानावरणीय-श्रुतज्ञानावरणीय-चक्षुरचक्षुर्दर्शनावरणीय-वीर्यान्तरायकर्मक्षयोपशमजनिता स्पर्शादिग्राहकशक्तिः लब्धिः, स्पर्शादिज्ञानमुपयोगः, स्पर्शादिविज्ञानं फलरूपमुपयोगः । अत्रेन्द्रियाणां वर्णादिज्ञानेन विषयता, किन्तु ज्ञानमग्ना हि तेषु वर्णादिषु मनोज्ञामनोज्ञेषु इष्टानिष्टतया भूत्वा इष्टाभिमुखताऽनिष्टकम्पनारूपा मोहपरिणतिः विषयता ज्ञानस्य विषयत्वेन सिद्धानां सविषयताप्तेः, अतः रक्तद्विष्टतया प्रवर्त्तमानं ज्ञानं विषयः, कारणकार्ये एकता चारित्रमोहोदयेन अरम्ये रमणमसंयमः। तत्र वर्णादयो हि ज्ञेयाः एव, न रम्याः । तत्र रमणं-विषयेन्द्रियद्वारप्रवृत्तज्ञानस्य इष्टानिष्टतया परिणमनम्, तस्य जयः इन्द्रियविषयजयः। किमित्याह इति यद्द्वारेण वर्णादीनां ज्ञानं न इष्टानिष्टता इन्द्रियजयः, अनाद्यशुद्धासंयमपरिणतिवारणारूपः, तत्र ज्ञानं हि आत्मनः स्वलक्षणत्वात् स्वपरपरिच्छेदः विधिः । इष्टानिष्टता तु विभाव एव । सङ्गाङ्गितया अनादिसन्ततिजः अशुद्धपरिणामः सर्वथा त्याज्यः एव । अतः इन्द्रियजये यतितव्यम्। तत्र द्रव्यजयः संकोचादिलक्षणः, भावजयः चेतनावीर्ययोः स्वरूपानुपातः । नैगमनयेन निर्वृत्त्युपकरणेन्द्रियपरिणमनयोग्याः पुद्गलस्कन्धाः, संग्रहेण जीवपुद्गलौ, व्यवहारतः निर्वृत्त्युपकरणेन्द्रियपरिणतनिर्माणादिविपाकजानि इन्द्रियसंस्थानानि, ऋजुसूत्रेण स्वस्वविषयग्रहणोत्सुकौ(के) निर्वृत्त्युपकरणौ(णे), शब्दनयेन संज्ञाग्रहमिता लब्धिः उपयोगपरिणतिवृत्तिः, समभिरूढनयेन संज्ञागृहीताऽगृहीतविषयक्षेत्रप्राप्तविषयपरिच्छेदः, एवंभूतनयेन मतिश्रुतचक्षुरचक्षुर्वीर्याद्यन्तरायाणां क्षयोपशमावधेः प्रान्तं यावद्ज्ञानम्, तत्रासंयतस्येष्टानिष्टयुक्त एवावबोधो भवति । तेन विषयः इति संज्ञाभोक्तृत्वाशुद्धता १आत्मनः अशुद्धपरिणामः, तस्य जयः । सोऽपि आद्यनयचतुष्टये कारणरूपशब्दादिषु संयमगुणप्राग्भावानुगतचेतनादिपरिणामः । द्रव्य
१. आत्माशुद्धo V.1.2., B.2. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org