________________
३. तृतीय परिशिष्ट
भावारिवारणान्त्यपादसमस्यापूर्तिमयं
महावीरस्तोत्रम् उपाध्याय-पद्मराजगणि-सन्दृब्धम्
वन्दे महोदयरमारमणीललामं, कामं महामहिमधामविलासधामम् । वीरं भवारिभयदावकरालकीलासम्भारसंहरणतुङ्गतरङ्गतोयम् ॥ १॥
देवा नरा विमलबुद्धिगुणा हि नावगच्छन्ति देव! निखिलं गुणसञ्चयं ते। मन्तुं न तं सममलं जडपुङ्गवोऽह
मुञ्छामि किन्तु तव देव! गुणाणुमेव ।। २ ।। हे वीर! हीरसुरसिन्धुर! सिद्धसिन्धुडिण्डीरपिण्डधवला गुणधोरणी ते। गोविन्दवारिरुहसम्भववामदेवमायाविदेवनिवहे न मलीमसा वा ।। ३ ।।
निस्सङ्गरङ्ग! तव सङ्गममन्तरेण, चिन्तामणी-सुरगवी-करणिं चिरेण । नारायणं च मिहिरं च हरं महन्तो, विन्दन्ति जन्तुनिवहा न हि सिद्धभावम्॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org