________________
२४०
स्तम्भन-पार्श्वनाथस्तोत्रम्
सृतं साम्राज्येन त्रिजगति न कार्यं युवतिभिः, कृतं विद्यामन्त्रप्रभृतिभिरथास्तां घुपतिता। अलं चिन्तामण्यादिभिरपि परं श्रायन(?)सुख
श्रियो हेतुर्मेऽन्तः स्फुरतु भगवद्भक्तिरनिशम्॥ १८॥ किमन्धाः किं मुग्धाः किमुत ठकिताः किं ग्रहवशाः, किमज्ञाः किं स्वात्मद्रुह इह जनाः किं विधिहताः। चतुस्त्रिंशत्तथ्यातिशयविशदं त्वां न यदमी, समाशे श्रीयन्ते गुणगुरुमरागादिकलुषम् ॥ १९॥
रुजां गेहं देहं प्रिययुवतयः क्लेशततयः, क्षणस्थेमप्रेमप्रथितनिधनं बह्वपि धनम्। गतत्राणाः प्राणाः सुखसमुदया नश्यदुदया
स्त्वदुक्ते निर्मुक्ते परमिति मनो वेत्ति मम नो॥ २० ॥ त्वमम्बा त्वं बन्धुस्त्वमसि जनकस्त्वं प्रियसुहृत्, त्वमीशस्त्वं वैद्यस्त्वमसि गुरुस्त्वं शुभगतिः। त्वमक्षि त्वं रक्षा त्वमसव इति त्वं मम न किं, ततो मां त्रासीष्ठाः कठिनगदवृन्दार्दिततनुम् ॥ २१॥
कृताबोधे क्रोधे बहुविधमदे क्लेशशतदे, भवारम्भे दम्भे विषयतृषि पुण्याङ्करकृषि। धृताशोभे लोभे दुरितसदने दुष्टमदने,
परिश्रान्तं स्वान्तं मम जिन! यथा स्यात् कुरु तथा॥ २२ ॥ भवोद्भूतेरेतद्विदितमिन! नानसिषमहं, क्वचित्त्वां प्राक्पार्श्व! क्षतभव! न चास्ताविषमिति । इदानीं वन्दारुर्विकरणमुपेतः शिवपदं, नवं दिष्ये स्तोष्ये न च तदिदमागः सह चतुः॥ २३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org