________________
१३८
प्रश्नोतरैकषष्टिशतकाव्यम्
के वाऽभ्रंकषकोटयः शिखरिणां रेजुस्तथा कांश्चन, श्रीरस्मानजनिष्ट नाङ्गजमिति प्रोक्तान् वदेत् किं स्मरः? ॥ १५७॥
'मामसूतसानवः' मंजरीसनाथजातिभेदः। पाके धातुरवाचि कः? क्व भवतो भीरो! मनः प्रीयते?', सालंकारविदग्धया वद कया रज्यन्ति विद्वज्जना:?। पाणौ किं मुरजिद्विभर्ति? भुवि तं ध्यायन्ति वा के सदा?, के वा सद्गुरवोऽत्र चारुचरणश्रीसुश्रुता विश्रुताः? ॥ १५८॥
'श्रीमदभयदेवाचार्याः। कः स्यादम्भसि वारिवायसवति? क्व द्वीपिनं हन्त्ययं?, लोकः प्राह हयः प्रयोगनिपुणैः कः शब्दधातुः स्मृतः? । ब्रूते पालयिताऽत्र? दुर्धरतरः बव क्षुभ्यतोऽम्भोनिधे-? ब्रूहि श्रीजिनवल्लभस्तुतिपदं कीदृग्विधाः के सताम्? ॥ १५९ ॥
'मद्गुरवोजिनेश्वरसूरयः' द्विर्गतः। प्रत्येकं हरिधान्यभेदशशिनः पृच्छन्ति किं लुब्धकः?, त्वं प्राप्तं कुरुषे मृगव्रजमथो खादद्गृहीताऽवदत् । कीदृग्भाति सरोऽर्हतश्च सदनं? किं चाल्पधी वन्, पृष्टः प्राह? तथा च केन मुनिना प्रश्नावलीयं कृता? ॥ १६०॥
'जिनवल्लभेन' गतागतद्विर्गतः। किमपि यदिहाश्लिष्टं क्लिष्टं तथा विरसं क्वचित्प्रकटितपथानिष्टं शिष्टं मया मतिदोषतः। तदमलधिया बोध्यं शोध्यं सुबुद्धिधनैर्मनः, प्रणयविशदं कृत्वा धृत्वा प्रसादलवं मयि ॥ १६१॥
इति प्रश्नोत्तरैकषष्टिशतकाव्यम् * * *
१. 'प्रीतये' इति मु०
२. 'स्यादम्बुनि' इति अ०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org