________________
७४.
७३. प्रभुः नापरस्य परिभाषणोचितः। १० । ३३
रामणीयगुणैकवास्तुनो, वस्तुनः सुकरमर्जनं जने । भाविविप्लवनिवारणं पुनस्तस्य दुष्करमुशन्ति सूरयः॥ १० । ४९ अर्जिते न खलु नाशशङ्कया क्लिश्यमानमनसस्तथा सुखम् । जायते हृदि यथा व्यथाभरो, नाशितेऽलसतया सुवस्तुनि ॥ १० १५० दृष्टनष्टविभवेन वर्ण्यते भाग्यवानिति सदैव दुर्विधः। जन्मतो विगतलोचनं जनं, प्राप्तलुसनयनः पनायति ॥ १० । ५१ जाग्रतोऽस्ति न हि भीः॥१०।५८ लास्यकर्मणि विनिर्मितभ्रमि - र्निर्ममे विधृतकौतुकं न कम् ।। १० । ७० परिवृढदृढीकाराभावे बलेहि कियबलम् ॥ १०। ८३ .. अहो यशो भाग्यवशोपलभ्यम् ॥ ११ । ११ दाता कुलीनः सुवचा रुचाढ्यो रत्नं पुमानेव न चाश्मभेदः॥ ११ । ३४ न मार्जितावत्कवलेन लेह्या न क्षीरवच्चाञ्जलिना निपेया। अहो सतां वाक् जगतोऽपि भुक्तपीतातिरिक्तां विदधाति तुष्टिम् ॥ ११ । ५६ न चन्दनं चन्द्रमरीचयो वा न वाप्यपाचीपवनो वनी वा।
सितानुविद्धं न पयः सुधा वा यथा प्रमोदाय सतां वचांसि ॥ ११ । ५७ ७४. भर्तुः प्रसादे सदृशेऽपि सम्पत्फलोपलब्धिः खलु दैववश्या ॥ ११ । ६३
७८.
८२.
८३.
(१७६)
[जैन कुमारसम्भव महाकाव्य]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org