________________
देहिनां हि सहजं दुरपोहम् ॥५।८ वेद चरितं महतां कः॥५।९ यः समः सकलजन्तुषु योग्यः, स हि प्रदक्षिणयितुं न हि नेतुः॥५। १२ रागमेधयति रागिषु सर्वम् ॥ ५ । १६ युवतीजनवृत्तेः पुंस्यवस्थितिः।। ५ । २९ प्राभवेऽपि नृषु योषिदधीनं भोजनं तदिति को न जगाद ।। ५।३० विश्वरक्षणपरस्य पुरोऽस्याऽचेतनेष्वपि चिरं नहि बन्धः॥ ५। ३१ यः परोऽपि विभुमाश्रयतेऽसौ तस्य पुण्यमनसः खलु पाल्यः॥५।५९ ये द्विषत्सु सहना इह गेहे नर्दिनः प्रणयिनी प्रति चंडाः। ते भवन्तु पुरुषाश्चरितार्थाः श्मश्रुणैव न तु पौरुषभंग्याः॥५।६० अन्तरेण पुरुषं नहि नारी तां विना न पुरुषोऽपि विभाति। पादपेन रुचिमञ्चति शाखा, शाखयैव सकलः किल सोऽपि॥५। ६१ कारिकासु सिकताधिकतायाः किं प्रकुप्यति नदीषु नदीशः॥५। ६५ मान्य एव शुचिरन्तरिहेभ्यस्त्रैणकंठरसिकोऽपि हि हारः॥५। ६६ श्रोत्रयोर्गुरुगिरां श्रुतिरास्ये, सूनृतं हृदि पुनः पतिभक्तिः। दानमर्थिषु करे रमणीनामेष भूषणविधिर्विधिदत्तः॥ ५। ७१ सुभ्रवा सहजसिद्धमपास्यं चापलं प्रसवसद्म विपत्तेः। येन कूलकठिनाश्मनिपाताद्वीचयोंऽबुधिभुवोऽपि विशीर्णाः॥५।७२ भोजिते प्रियतमेऽहनि भुङ्क्ते या च तत्र शयिते निशि शेते। प्रातरुज्झति ततः शयनं प्राक्, सैव तस्य सुतनुः सतनुः श्रीः॥ ५। ७५ उग्रदुर्ग्रहमभंगमयत्न प्राप्यमाभरणमस्ति न शीलम्।। चेत्तदा वहति काञ्चनरत्नैर्वीवधं मृदुपलैमहिला किम् ॥ ५। ७८. मज्जितो ऽपि घनकज्जलपङ्के शुभ्र एव परिशीलितशीलः। स्वर्धनी सलिलधौतशरीरोऽप्युच्यते शुचिरुचिर्न कुशीलः।। ५। ७९ कष्टकर्म नहि निष्फलमेतच्चेतनावदुदितं न वचो यत्। शीलशैलशिखरादवपातः, पातकापयशसोर्वनितानाम् ॥ ५.८० या प्रभूष्णुरपि भर्तरि दासी-भावमावहति सा खलु कान्ता। कोपपङ्ककलुषा नृषु शेषा, योषितः क्षतजशोषजलूकाः॥५। ८१ रोषिताऽवगणिता निहताऽपि प्रेमनेतरि न मुञ्चति कुल्या। मेघ एव परितुष्यति धारा-दंडधोरणिहताऽपि सुजातिः॥ ५। ८२
(१७४)
[जैन कुमारसम्भव महाकाव्य]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org