________________
NAMINATHPTH
स्तुतिविद्या क्योकि आप इस कार्य में समर्थ हैं-आपकी शरणमें पहुंचनेसे रक्षाकार्य स्वतः ही विना आपकी इच्छाके बन जाता है ।। १८,१६ ॥
(अदभ्रमः) धाम स्वयममेयात्मा मतयादभ्रया श्रिया ।
स्वया जिन विधेया मे यदनन्तमविभ्रम ॥२०॥ धामेति-धाम अवस्थानं तेजो वा । शोभनः श्रयः पुण्यं सुखं वा यस्मिन् तत् स्वयम् । अथवा स्वयं श्रात्मना । अमेयः अपरिमेयः प्रात्मा ज्ञानं स्वभावो वा यस्यासौ अमेयात्मा । मतया अभिमतया । अदभ्रया' । महत्या । श्रिया लक्ष्म्या । स्वया आत्मीयया । हे जिन परमेश्वर । विधेयाः कुरु । वि पूर्वः धान करोत्यर्थे वर्त्तते । मे मम । यत् अनन्तं न विद्यते अन्तो विनाशो यस्य तदनन्तं धाम । विभ्रमः मोहः न विद्यते विभ्रमो यस्यासावविभ्रमः । तस्य सम्बोधनं हे अविभ्रम । एतदुक्तं भवति-हे जिन अविभ्रम स्वकीयया श्रिया धाम अवस्थानं यदनन्तं मे मम तत् विधेयाः ॥ २० ॥ . अर्थ-हे मोहरहित शंभवनाथ जिनेन्द्र ! आप अपनी अभिमत विशाल लक्ष्मीसे ही अमेयात्मा-अनन्तज्ञानी हुए हो अतः आप मुझे भी उत्तम पुण्य या सुखसे सहित वह धामस्थान, तेज अथवा ज्ञान प्रदान कीजिये जिसका कभी अन्त न हो ॥२०॥
अभिनन्दन जिन स्तुतिः
श्रद्ध भ्रमः। अतमः स्वनतारक्षी तमोहा वन्दनेश्वरः ।
महाश्रीमानजो नेता स्वव मामभिनन्दन ॥२१॥ १ भद, बहुलं बहुः इत्यमरः । २ स्वाज्ञातावात्मनि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org