________________
स्तुतिविद्या ( इष्टपादवलयप्रथमचतुर्थसप्तमवलयकावर वृत्तम् ) रम्यापारगुणारजस्सुरवरैरक्षिर श्रीधर रत्यूनारतिदूर भासुर सुगीर्योत्तर्णीश्वर । रक्तान् क रकठोरदुद्धररुजोरक्षन् शरण्याजर रक्षाधीर सुधीर विद्वर गुरो रक्त चिरं मा स्थिर ॥ ११२॥
रम्येति-इष्टपादो वलयरूपेण भवतीत्यर्थः । रम्य रमणोय । अपारगुण अपरिमेयगुण । अरजः ज्ञानावरणादिकर्मरहित । सुरवरैः देवप्रधानैः । अय॑ पूज्य ! अक्षर अनश्वर । श्रीधर लचमीभृत् । रत्या रागेण ऊन रहित | अरते २: विप्रकृष्टः अरतिद्रः तस्य सम्बोधन हे अरतिदूर। भासुर भास्वर । शोभना गोर्वाणी यस्यासौ सुगी: त्वमिति सम्बन्धः । अर्थ स्वामिन् । उत्तराः प्रकृष्टाः ऋद्धयो विभूतयः उत्तरयः उत्तरर्धीनां ईश्वरः स्वामी उत्तरर्धीश्वरः तस्य सम्बोधन हे उत्तरश्विर। रक्तान् भवान् । करा रौद्रा, कठोरा निष्ठुरा, दुरा असहा, रुक ज्याधिः, करा चासो कठोरा च क्रूरकठोरा, करकठोरा चासौ दुद्धरा चक रकठोरदुद्धरा, ऋ रकठोरदुद्धरा चासौ रुक् च क रकठोरदुद्ध रुक तस्या: रक्षन् प्रतिपालयन् । शरण्य शरणीय | अजर जराहीन । रक्ष पालय । प्राधिर्मनः पीडा प्राधि इरति क्षिपतीत्याधीरः तस्य सम्बोधनं हे प्राधीर । सुधीर अक्षोभ । विदा पण्डितानां वरः प्रधान: विद्वरः तस्य सम्बोधनं हे विद्वर । गुरो स्वामिन् । रक्त भक्तम् । चिरं अस्यर्थम् । मा अस्मदः प्रयोगः । स्थिर नित्य । एतदुक्तं भवति-हे भट्टारक रम्य इत्यादि गुणविशिष्ट क्रूरकठोरदुद्धररुजो रक्तान् रक्षन् मा रक्त रख ॥१२॥
अर्थ-हे अत्यन्त सुन्दर ! हे अनन्तगुणोंके धारक ! हे ज्ञानावरणादि कर्मसमूहसे रहित ! हे इन्द्रोंके द्वारा पूज्य ! हे अविनाशी ! हे समवसरणादि लक्ष्मीके धारक ! हे रागरहित ! हे द्वेषसे दूर रहनेवाले ! हे शोभायमान ! हे उत्तम वाणीके
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org