________________
समन्तमन्द्र-मारती
अजेयधामोद्यमितवित् तां जुष्टे इति अजेयधामोद्यमितविजुट तस्मै अजेयधामोद्यमितविज्जुषे । श्रीमते इत्यादि पूर्व एवार्थः । अथवा श्रिया उपन पिता मतिर्यस्यासौ श्रीमति: तस्य सम्बोधनं हे श्रीमते । वर्धमानः वृद्धि गच्छन् अयः मार्गो यस्यासौ वर्धमानायः तस्य सम्बोथनं है वर्धमानाय । मा. लक्ष्मीः तया ऊनः मोनः न मोनः नमोनः तस्य सम्बो. 'धनं हे नमोन । मिता परिमिता वित् ज्ञानं मितवित् तां विष्णाति निराकरोति इति मितविद्विट् तस्मै मितविद्विषे । एवं सम्बन्धः कर्तव्यः-हे वर्धमान श्रीमते वर्धमानाय नमोन मितविद्विषे ते नमः । पुनरपि कि विशिष्टाय वामदेव चमाजेय धामोद्यमितविज्जुषे ।। १०३ ॥ .. अर्थ- हे भगवन् ! आप,इन्द्र चक्रवर्ती आदि प्रधान पुरुषों के भी देव-इन्द्र हैं, आपका क्षमागुण सर्वथा अजेय है, आप तेजसे प्रकाशमान केवलज्ञानको प्राप्त हुए हैं, आपकी मति-ज्ञानसम्पत्ति समवरणादि लक्ष्मीसे उपलक्षित है, आपके द्वारा प्रच. लित मोक्षमार्ग हमेशा बढ़ता रहता है अथवा आपका पुण्य उत्तरोत्तर बढ़ रहा है, आप लक्ष्मोसे परिपूर्ण हैं तथा मतिश्रुत आदि क्षायोपशमिक-अल्पज्ञानोंको दूर करनेवाले हैं अतः आपके लिये नमस्कार हो । १०३ ।।
___(मुरजबन्ध:) समस्तवस्तुमानाय तमोघ्नेमितवित्विषे । श्रीमतेवर्धमानाय नमोन मितविद्विषे ॥ १०४ ।।
समस्तेति-समस्ते विश्वस्मिन् वस्तुनि पदार्थे मानं ज्ञानं यस्यासौ समस्तवस्तुमानः तस्मै समस्तवस्तुमानाय । तमोध्ने अज्ञानविनाशकाय । विशिष्टा स्विट् इति विस्विट् अमिता वित्विट् यस्यासौ अमितविस्विट् तस्मै अमितवित्विषे,श्रीमते इत्येवमादिषु पूर्व एवार्थः । अथवा श्रियं मिमीत इति श्रीमः तस्य सन्बोधनं हे श्रीम । ते तुभ्यं । अथवा श्रियं मन्यत इति श्रीमत् तस्मै श्रीमते । ऋद्ध वृद्ध अवेन कान्त्या ऋवं अव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org