________________
परिशिष्टम् २
५०५ भूतपञ्चकम् । शब्दतन्मात्रादाकाशम्, शब्दो ह्यम्बरनुणः । स्पर्शतन्मात्राद्वायुः । रसतन्मात्रादापः। रूप
जः । गन्धतन्मात्रादभ मिः । शब्दतन्मात्रासहितात स्पर्शतन्मात्राद्वायः शब्दस्पर्शगणः । शब्दस्पर्शसहितरूपतन्मात्रात्तेजः । शब्दस्पर्शरूपगुणम् । शब्दस्पर्शरूपगुणसहित [ रस ] तन्मात्रादाप; शब्दस्पर्शरूप [ रस ] गुणाः । शब्दस्पर्शरूपरससहितगन्धतन्मात्रात् पृथिवी शब्दस्पर्शरसरूपगन्ध] गुणा जायते ॥ ४० ॥ प्रकृतेमहानहंकारः पञ्चबुद्धीन्द्रियाणि [ पञ्चकर्मेन्द्रियाणि ] मनश्च पञ्च तन्मात्राणि पश्च भूतानि, २४ तत्त्वानि रूपं यस्य तत्प्रधानं प्रकृतिः कथिता । पञ्चविंशं तत्त्वं पुरुषः अन्यः अकर्ता । प्रकृतिरेव करोति बध्यते मुच्यते च । पुरुषस्तु "अमूर्तश्चेतनो भोगी नित्यः सर्वगतोऽक्रियः। अकर्ता निर्गुणः सोऽपि [सूक्ष्म आत्मा कापिलदर्शने ॥" अन्यः प्रकृतिरेव कर्ता तु पुनर्न पुरुषः । विगुणः सत्त्वरजस्तमो-रूपगणत्रयविकलः । भोक्ता भोगी। नित्यं यासौ चिच्चैतन्यशक्तिः तथाभ्युपेतः सहितः । आत्मा हि स्वबुद्धे रव्यतिरिक्तं मन्यते । सुखदुःखादयो विषया इन्द्रियद्वारेण बुद्धौ संक्रामन्ति । बुद्धिश्चोभयमुखदर्पणाकारा । ततस्तस्यां चैतन्यशक्तिः प्रतिबिम्बते । ततः सुख्यहं दुःख्यहमित्युपचर्यते ॥४१॥ तत्त्वोपसंहारमाह-पूर्वाध सुगमम् । अत्र सांख्यमते प्रकृतिपुरुषयोर्वर्तनं पङ्ग्वन्धयोरिव । यथा पङ्ग्वन्धौ संयुतावेव कार्यक्षमो न पृथक्, तथा प्रकृतिनरौ। प्रकृत्युपात्तं पुरुषो भुङ्क्त इत्यर्थः॥४२॥ प्रकृत्या सह विरहे पुरुषस्य मोक्षः। एतस्याः प्रकृतेविषयमान्तरं ज्ञानं बन्धविच्छेदाद भवति । बन्धस्त्रिी प्राकृतिकवैकारिकदाक्षणिकभेदात् । प्रकृतावात्मज्ञानात प्राकृतिकः । भूतेन्द्रियाहंकारबुद्धिविकारान् पुरुषबुद्धयोपासते वैकारिकः । इष्टापूर्ते दाक्षिणः। पुरुषतत्त्वानभिज्ञो हीष्टापूर्तकारी त्रिविधबन्धच्छेदात् परमब्रह्मज्ञानानुभवः। प्रमाणत्रयम्, प्रत्यक्षमिन्द्रियोपलभ्यम्, लैङ्गिकमनुमानम्, शाब्दं चागमस्वरूपम् ॥४३॥ चः समुच्चये । न केवलं बौद्धनैयायिकयोः सांख्यमतस्यापि संक्षेपः कथितः । सुष्ठ शोभनो विचारोऽर्थोऽस्यास्तीति साभिप्रायम् । अपराणि दर्शनानि-"पुराणं मानवो धर्मः साङ्गो वेदश्चिकित्सितम् । आज्ञासिद्धानि चत्वारि न हन्तव्यानि हेतुभिः ॥” इत्याद्यविचारपदवीमाद्रियन्ते। जैनस्त्वाह-"अस्ति वक्तव्यता काचित्तेनेदं न विचार्यते । निर्दोषं काञ्चनं चेत्स्यात् परीक्षाया बिभेति किम्" जैनो युक्तिमवीवगाहते-"पक्षपातो न मे वीरे न द्वेषः कपिलादिषु । युक्तिमद्ववचनं यस्य तस्य कार्यः परिग्रहः ॥४४॥ देवतत्त्वमाहजयन्ति रागादीन् जिनाः केवलिनः तेषामिन्द्रः स्वामी। रागः सांसारिकः स्नेहः । द्वेषो वैरानुबन्धः तद्रहितः । धवखदिरपलाशादिविशेषावबोधो ज्ञानम्, वनमिति सामान्यावबोधो दर्शनम्। केवलशब्दोभ ( शब्द उभ ) यत्र संबध्यते । केवलम् इन्द्रियज्ञानानपेक्षम् । छद्मस्थस्य हि प्रथमं दर्शनं ततो ज्ञानम्, केवलिनस्त्वादौ ज्ञानं ततो दर्शनम् ॥ ४५ ॥ मोहनीयकर्मोदयाद् हिंसात्मकशास्त्रेभ्योऽपि युक्तिकाङ्क्षादिमोहः स एव मल्लः, स हि येन रागद्वेषमोहसद्भावादेवमन्यतीर्थाधिष्ठातारो मुक्तितया प्रसिद्धाः । सुरासुरसेव्यमानत्वमानुषङ्गिकफलम् । सद्रूपान् द्रव्यपर्यायरूपान् नित्यानित्यसामान्यविशेषाद्यनन्तधर्मात्मकान् पदार्थानुपदिशति यः सर्वाणि धनधान्यादीनि कर्माणि जीवयोग्यावद्यपुद्गलाः तेषां क्षयं विधाय मोक्षं संप्राप्तः । अपरे सौगतादय मोक्ष प्राप्ता अपि स्वतीर्थतिरस्कारदर्शने पनर्भवमवतरन्तः श्रयन्ते, न तेषां कर्मक्षयः। कर्मक्षये हि भवावतारः कुतः ॥ ४६ ॥ तत्त्वान्याह । तन्मते जैनमते तत्त्वानि ज्ञेयानि निगदसिद्धनामानि ॥ ४७ ॥ जीवादिस्वरूपमाह । जैनमते चैतन्यलक्षणो जीव इति संबन्धः । ज्ञानदर्शनचारित्रधर्माणां गणाभिन्नो भिन्नश्च। स्वापेक्षया । ज्ञानवत्त्वमभिन्नं ज्ञानादिभ्यः, परापेक्षयाज्ञानवत्त्वं भिन्नम्, लेशतोऽपि यदि सर्वजीवेषु न न ज्ञानं तदा जीव
अजीवत्वं प्राप्नुयात् । विवृत्तिः परिणामः सुरनरनारकतिर्यक्षु एकेन्द्रियादिजातिषु विविधोत्पत्तिरूपान् परिणामाननुभवति जीवः । शुभं सातवेद्यम् अशुभमसातवेद्यम्, एवंविधं कर्म करोतीति कर्तृभूतः । स्वोपार्जितपुण्यपापफलभोक्ता, न चान्यकृतस्यान्यो भोक्ता ॥ ४८॥ चेतनास्वभावत्वं लक्षणं यस्य सूक्ष्मबादरएकेन्द्रियास्तथा विकलेन्द्रियाः संश्यसंज्ञिनः पञ्चेन्द्रियाः पर्याप्तापर्याप्तभेदेन चतुर्दशजीवभेदाः । अस्माद्यो विपरीतोऽचेतनादिलक्षणः स अजीवः धर्माधर्माकाशपुद्गलाः स्कन्धदेशदेशगुणाः, अद्धा केवलपरमाणवश्चेति चतुर्दश जीवभेदाः । सत् शोभनं सातवेद्यं कर्म तस्य पुद्गलाः दलपाटकानि ते च ।। ४९ ॥ तु पुनः पुण्यप्रकृतिविसदृशं पापम् , ८२ भेदाः । मिथ्यादर्शनाविरतिप्रमादकषाययोगा हेतवः । यस्तैमिथ्यात्वादिभिर्बन्धस्य हेतुः कर्मबन्धः स आस्रवः
६४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org