________________
२७६
स एवायं निभृता येन सत्त्वाः शश्वद्दःखा दुःखमेवापियन्ति । स एवायमृषयो यं विदित्वा व्यतीत्य नाकममृतं स्वादयन्ति ॥१२॥ विद्याविद्ये यत्र नो संभवते यन्नासन्नं नो दवीयो न गम्यम् । यस्मिन्मृत्युर्नेहते नो तु कामा(कामः) स सोऽक्षरः परमं ब्रह्म वेद्यम् ॥१३॥ श्रोतप्रोताः पशवो येन सर्वे श्रोतप्रोतः पशुभिश्चैष सर्वैः । सर्वे चेमे पशवस्तस्य होम्यं तेषां चायमीश्वरः संवरेण्यः ।।१४।। तस्यैवैता रश्मयः कामधेनोर्याः पाप्मानमदुहानाः क्षरन्ति । येनाध्याता: पंच जनाः स्वपन्ति [प्रोबुद्धास्ते स्वं परिवर्तमानाः ।।१५ ।। तमेवाश्वत्थमृषयो वामनन्ति हिरण्मयं व्यस्तसहस्रशीर्षम् । मनःशयं शतशाखप्रशाखं यस्मिन् बीजं विश्वमोतं प्रजानाम् ॥१६॥ स गीयते वीयते चाध्वरेषु मन्त्रान्तरात्मा ऋग्यजुःसामशाखः । अधःशयो विततांगो गुहाध्यक्षः स विश्वयोनिः पुरुषो नैकवर्णः ॥१७॥ तेनैवैतद्विततं ब्रह्मजालं दुराचरं दृष्टथुपसर्गपाशम् । अस्मिन्मग्ना मानवा मानशल्यैर्विवेष्यन्ते पशवो जायमानाः ॥१८॥ अयमेवान्तश्चरति देवतानामस्मिन् देवा अधिविश्वे निषेदुः । अयमुद्दण्डः प्राणभुक् प्रेतया रेष त्रिधा बद्धो वृषभो रोरवीति ॥१६॥ अपां गर्भः सविता वह्निरेष हिरण्मयश्चान्तरात्मा देवयानः। एतेन स्तंभिता सुभगा द्यौर्नभश्च गुर्वी चोर्वी सप्त च भीमयादसः ॥२०॥ मनः सोमः सविता चतुरस्य घ्राणं प्राणो मुखमस्याज्यपिवः । दिशः श्रोत्रं नाभिरंध्रमब्दयानं पादाबिलाः सुरसाः सर्वमापः ॥२१॥ विष्णुर्बीजमंभोजगर्भः शंभुश्चायं कारणं लोकसृष्टौ । नैनं देवा विद्रते नो मनुष्या देवाश्चैनं विदुरितरेतराश्च ॥ २२ ॥ अस्मिन्नुदेति सविता लोकचक्षरस्मिन्नस्तं गच्छति चांशुगर्भः एषोऽजस्रं वर्तते कालचक्रमेतेनायं जीवते जीवलोकः ॥२३॥ अस्मिन् प्राणाः प्रतिबद्धाः प्रजानामस्मिन्नस्ता रथनाभाविवाराः । अस्मिन् प्रीते शीर्णमूलाः पतन्ति प्राणाशंसाः फलमिव मुक्तवृन्तम् ॥२४॥ अस्मिन्नेकशतं निहितं मस्तकानामस्मिन् सर्वा भूतयश्चेतयश्च । महान्तमेनं पुरुषं वेद वेद्यं श्रादित्यवर्ण तमसः परस्तात् ॥२५॥ विद्वानज्ञश्चेतनोऽचेतनो वा स्रष्टा निरीहः स ह पुमानात्मतन्त्रः । क्षराकारः सततं चाक्षरात्मा विशीर्यन्ते वाचो युक्तयोऽस्मिन् ॥२६॥ बुद्धिबोद्धा बोधनीयोऽन्तरात्मा बाह्यश्चायं स परात्मा दुरात्मा । नासावकं नापृथक् नाभि नोभौ. सर्व चैतत्पशवो यं द्विषन्ति ॥२७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org