________________
तद्धिते सप्तमः पादः
गम्ये अह्ना एकेन अश्चात् ईनञ् । १ । 'तस्य' इति वर्तते । 'तस्य' इति षष्ठयन्तात् 'अश्व' शब्दात् एकेन अह्ना गम्ये अर्थे ईनञ् प्रत्ययो भवति ।
अश्वस्य एकेन अह्ना गम्यः आश्वीनः अध्वा । एकेन अह्ना इति किम् ? अश्वस्य मासेन गम्यः ॥ १ ॥
कुलात् जल्पे । २। 'तस्य' इति षष्ठ्यन्तात् 'कुल'शब्दात् जल्पे अर्थे ईनञ् प्रत्ययो भवति । कुलस्य जल्पः कौलीनः ॥ २॥
यथामुख-संमुखात् ईनः दर्शने। ३ । यथामुख-संमुखशब्दाभ्यां षष्ठयन्ताभ्यां दर्शने अर्थे 'ईन'प्रत्ययो भवति । दृश्यते अस्मिन् इति दर्शनम् आदर्शादिः प्रतिबिम्बाश्रयः ।
यथामुखीनम्-यथा मुखम् तथा अस्मिन् दृश्यते प्रतिबिम्बम् इत्यर्थः । समं मुखम् अस्य अनेन वा संमुखम्-प्रतिबिम्बम् तस्य दर्शनम् संमुखीनम् आदर्शादि ॥ ३ ॥ 'सर्व'आदेः पथि-अङ्ग-[कर्म]-पत्र-पात्र-शरावात् व्यापिनि । ४।
'तस्य' इति षष्ठयन्तेभ्यः 'सर्व'शब्दआदिभ्यः 'पथि'आदिभ्यः व्यापिनि अर्थे 'ईन' प्रत्ययो भवति ।
सर्वपथस्य व्यापी सर्वपथीनः रथः । सर्वाङ्गीणः तापः । सर्वकर्मीणः पुरुषः । सर्व पत्रीणः सारथिः । सर्वपात्रीणः ओदनः । सर्वशरावीणः ओदनः ॥ ४ ॥
आप्रपदम् । ५। आपदाग्रात् आप्रपदम् , तस्मात् षष्ठ्यन्तात् व्यापिनि अर्थे 'ईन' प्रत्ययो भवति । आप्रपदं व्यापी आप्रपदीनः पटः ।। ५ ॥
- अनुपदं बद्धा । ६। 'अनुपद'शब्दात् 'बद्धा' इत्यर्थे 'ईन' प्रत्ययो भवति । अनुपदीना उपानत् ॥ ६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org