________________
आख्याते सप्तमः पादः
[ २२५ स्वरान्तात् 'श्वि'आदिवर्जात् विहितस्य व्यञ्जनादेः अशितः प्रत्ययस्य इट् न भवति।
पाता । चेता। स्तोता । 'श्वि'आदिप्रतिषेधः किम् ? श्वयिता । श्रयिता। डयिता। शयिता । रविता । क्षविता । वरिता । प्रावरिता । ऋत्---तरीता । ऊत्-लविता । अत् अवधीत् ॥ ५३॥ मजि-दृशि-स्वर-अत्वतः तृचि नित्यानिटःथपः अवृ-व्ये-अद-अर्तेः।५४।
तृचि नित्यानिटः सृजेः दृशः स्वरान्तात् अत्वतश्च परतः विहितस्य थपः इट् वा न भवति, वृ-व्ये-अद्-अर्ति इत्येतान् वर्जित्वा ।
सस्रष्ठ, ससर्जिथ । दद्रष्ठ, ददर्शिथ । निनेथ, निनयिथ । पपक्थ, पेचिथ । तृचि नित्यानिटः इति किम् ? जघसिथ, न अस्य तृच् अस्ति परोक्षायाम् आदेशविधानात् । नित्यग्रहणम् किम् ? आननिथ । एकस्वरात् इत्येव ? बेभिदिथ । अवृ-व्ये-अद्-अर्तेः इति किम् ? ववरिथ । विव्ययिथ । आरिथ । आदिथ ॥ ५४॥
ऋतः । ५५। ऋकारान्तात् धातोः एकस्वरात् विहितस्य थपः इट् न भवति । सस्मर्थ । एकस्वरात् इति किम् ? जजागरिथ ॥ ५५ ॥
कृतः असटः । ५६ । कृञः असट्कात् विहितस्य थपः इट् न भवति । चकर्थ । असटः इति किम् ? संचस्करिथ ।। ५६ ॥
सृ-वृ-भृ-स्तु-द्रु-सु-श्रोश्च परोक्षायाम् । ५७ । एभ्यः असटकात् कृञश्च परस्यां परोक्षायाम् इट् न भवति ।
ससृव । ववृव । बभूव । तुष्टोथ । दुद्रोथ । सुस्रोथ । शुश्रोथ । चकृव । असटः इति किम् ? संचस्करिथ । स्वरान्तत्वादेव प्रतिषेधे सिद्धे 'सृ'आदीनाम् उपादानं नियमार्थम् तेन अन्येभ्यः परोक्षा सेट् एव ॥ ५७ ॥ ॥ इति श्रीमलयगिरिविरचिते शब्दानुशासने वृत्तौ आख्याते सप्तमः पादः समाप्तः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org