________________
विशेषावश्यकभाष्ये
नि० ५६६न्ते सिद्धम् , तथाऽप्य[त्र] दृषणमुच्यते-जिनोपदेशवर्तित्वं हि हेतुर्यथा जिनेन्द्रदृष्टान्ते निरुपमतिसंहननचतुर्ज्ञानातिशयसत्त्वसम्पन्नाच्छिद्रपाणिपात्रजितपरीवहनच्छन्नाहारनीहारपरानभिभवनीयरूपातिशयत्वधर्माऽविनाभूताऽचेलत्वेन व्याप्तो दृष्टे स्तद्वत् पराभिमतसर्वसाधूनामचेलत्वसाध्यधर्म यथोक्तविशेषणसहितं साधयतीति अनतिशयाऽचेलत्वविपर्य येण धर्मविशेषविपरीतसाधनो नाम इष्टविघातकृविरुद्धः-पराश्चिक्षुरादयः संघातत्वाच्छयनासनाद्यङ्गवत्-इत्यत्र यथा ।
एवं च सातिशया जिनाः वस्त्रपात्रे न गृह्णन्ति, तद्विरहेऽपि तदोषासम्बन्धिस्वात् तद्गुणसम्बन्धित्वाच्च दण्डके इव । तद् वस्त्रपात्रादि तेषां संयम साधनं न भवति, तेन विनाऽपि तसिद्धेः, पुस्तकादिवत् । तथाऽपि च क(चाकि चित्करमपि संयम प्रति एकं वस्त्रं परिगृह्णन्ति प्रयोजनान्तरोपयोगित्वात् , कृतकृत्यप्रथमधर्मकथाप्रवर्तने तीर्थकरसंस्कारवत् । तच्च प्रयोजनान्तरं सवस्त्र तीर्थप्रदर्शनम् । तस्मिश्च निष्क्र. मणकालपरिगृहीतकवस्त्रे च्युते पुनरन्यथाप्रयोजनाभावान परिग्रहाभावे सातिशयाऽ. चेलका भवन्तीति तीर्थकराः, न पुनः पृथग्जनास्त कालमनुष्याः, किमङ्ग पुनरद्यकालसामान्यपुरुषाः सर्वदोषाकराः । तस्मादचेलको(का)ग्रहोऽनर्थकर इति त्यभ्यताम् । यचोक्तम् - 'अचेलकैर्जिनैर्जिनकम्पिका एवोपदिष्टाः' इति तदन्यथा, नैव सर्वे निरुपधयः, किन्तु सर्वेऽप्युत्सर्गतः सोपधयाः(यः)। उपधिपरिमाणं प्रति विशेषान्तरम्, स्तोकाल्पोपकरणत्वात् । पुरुषविशेषो(पा)नतिशयापेक्षमेतत्, तथापि सर्वेः सामान्यपुरुषकैः जिनकल्पो न प्रतिपत्तव्यः, तदयोग्यत्वात् , क्लीवादिभिरिव संयमः ।
यदपि चोक्तम्-'अचेला जिनास्तच्छिष्यैरपि सर्वेरचेलकैर्भवितव्यम्"जारिसयं गुरुलिङ्गं सीसेण वि तारिसेण होयत्वं । ण हि होइ बुद्धसीसो सेयपडो णग्गसमणो वा ॥"
अत्र प्रमाणम् - स्वतीर्थकरवेप चरितानुविधायिभिस्तच्छिप्यर्भवितव्यम् , शिष्यत्वात् शाक्यबुद्ध शिष्यभिक्षुवत्' । अस्योत्तरम्-स्वतीर्थकरवेष चरितानुविधायिनः को विपक्षः? यः स्वतीर्थकरवेषचरितानुविधायी न भवति । तद्यथाई तो गोसा(शा)लका(कः), बुद्धस्य देवदत्तकः । तत्र च शिष्यत्वं हेतुर्वर्त्तत इत्यनैकान्तिक उभ या] सिद्धि (द्ध) इति दूषणम् ।
अथ यात् परः--तदाऽऽदेशकारिविनीत वे सति शिष्यत्वादिति हेतुः सविशेषणः । तौ च गोशाल-देवदत्तको तदादेशका रिविनीतो न भवत इति विपक्षाद् व्यावृत्त एव हेतुरित्यनैकान्तिकाभावः । एवमपि स्वतीर्थकरवेषचरितानुविधायिन्यः
१ दृष्टान्तस्तद्वन्-इति प्रतौ ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org