________________
५३२ विशेषावश्यकभाष्ये
[नि० ५४५अपुधत्त० गाहा । पृथगिति निपातो विभागेवाची । तस्य नत्रा प्रतिषेधाद् अपृथग्भावः एकत्वम् --अविभाग इत्यर्थः । केषामविभागः ! इति चेत् , उच्यतेचरण-धर्म-संख्या-द्रव्यानुयोगानां चतुर्णामपि प्रतिसूत्रमविभागेन-विस्तराभावात्-सर्वमेव सूत्रं चतुरनुयोगात्मकम् , लक्षण-विधानाभ्यामवबद्धत्वात् । लक्षणं सामान्य-विशेपाभ्याम् । सामान्य लक्षणं सर्वत्रानुप्रवृत्तेर्नाम-स्थापना-द्रव्य-भावतः द्रव्य-क्षेत्र-काल-भावैर्वा निक्षेपात् , निर्देश-स्वामित्व-साधनाऽधिकरण-स्थिति-विधानैः, सत्-संख्या-क्षेत्रस्पर्शन-कालाऽन्तर-भावाऽल्पबहुवैश्च । सत्पदं गतीन्द्रिय-काय-योग-वेद-कषायलेश्या-सम्यक्त्व-ज्ञान-दर्शन-संयमोपयोगाऽऽहारक-भाषक-परीत्त-पर्याप्त-सूक्ष्म-संज्ञि-भव्यचरमादिभिः । एवमनेक विध] सामान्यलक्षणम् । विशेषलक्षणं क्रिया-कारक-व्युत्पत्तिपर्यायकथन-वाक्यान्तरैः । एवं सर्वस्य सूत्रस्य सर्वात्मकत्वाद् दृष्टिवादेऽनुयोगानां पृथक्त्वम् व्यामिश्रत्वमेव वा चतुणामपि ॥२७५२।।
तत्थेव णयाणं पि हु पतिवत्थु वित्थरेण सव्वेसि । 'देसेन्ति समोतारं गुरवो भयणा पुर्धत्तम्मि ॥२७५३॥
तत्थेव णयाणं गाहा । तत्रैव नयानां विस्तरेण विरोधाविरोधसम्भववचनविशेषादिना प्रपञ्चः समवतारः । सम्प्रति पृथक्त्वे तु भजनया पुरुषविशेषापेक्षमभिधानम् ॥२७५३॥
एगो चिय देसिज्जति जत्थणुयोगों ण सेसया तिण्णि । संता वि तं पुधत्तं तत्थ गया पुरिसमासज्ज ॥२७५४।।
एगो च्चिय गाहा । यत्रैक एवानुयोगः प्राधान्येन निर्दिश्यते, सन्तोऽपि शेपास्त्र नो नाभिधीयन्ते महार्थ(थ)तया दुर्ग्राह्यत्वात्, तदनुयोगविभागकरणात् पृथक्वम्, तत्र नयानाम[न वतार: “ण णया समोतरंतीध" (नि०५४५] इति वचनात् 'इध' इति अस्मिन् पृथक्वे । ननु पश्चार्द्ध गाथायाः पुनरभिधानम्-“तिथ पुधत्ते समोतारो।" [नि ०५ ४५]त्ति किमर्थमुच्यते ? सम्यग्दर्शनरत्नात्यागार्थं कुदृष्टिविटहासात् । आदरार्थं पुनरुक्तमदोपाय । उक्तं च
"अनुवादाऽऽदर-वीप्सा-भृशार्थ-विनियोग हेत्वसूयासु । ईषत्सम्भ्रम-विस्मय-गणना-स्मरणेप्वपुनरुक्तम्" [ ] ॥२७५४।।
१ विभागभावी-इति प्रतौ । २ देसिति को हे । ३ पुहुर्त को। ५ °णुभोगे को। ५ सन्ता हे।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org