________________
नि० ५३३] उपोद्घाते प्रत्ययद्वारम् ।
केवलणाणित्तणतो अप्प चिय पच्चो जिणिन्दस्स । तप्पच्चक्खत्तणतो तत्तो च्चिय गोदमादीणं ॥२६०५॥
केवलप्रत्ययात् सर्वत्राप्रतिहतज्ञानोऽहमिति केवलज्ञानादेव तस्य प्रत्ययः, प्रत्याय्यजीवलोकस्य च यथार्थप्रतीत्युत्पादनात् , केवलज्ञानानन्यरूपत्वादात्मैव प्रत्ययोऽर्हतः । स च भगवान् गौतमादीनां सर्वसंशयपरिच्छेदादवि(धि)गतसर्वज्ञत्वः प्रत्यक्ष इति तत्प्रत्ययादेव केवल प्रत्ययादेव सामायिकार्थशब्दश्रवणमिति ॥२६०५॥
ननु चावबोधसामान्ये सति मति-श्रुतज्ञनाप्रत्ययत्वं सामायिकस्य प्राप्तम् । तत् किमिति नोच्यते ? आहाचार्य:
जेणाणि दियमिटै सामइयं तोऽवधाति विसयं तं । ण तु मति-मुतपचक्यं जं ताई परोक्खविसयाई ॥२६०६॥
जेणा० गाहा । अपसृतानीन्द्रियाणि यस्मात् सामायिकमतीन्द्रियम्, रूपिद्रव्य. निबन्धनानीन्द्रियाणीति । सामायिकं चामरूपत्वादमूर्तम् , मनोऽपीन्द्रियसहचारिस्वात् परोक्षविषयत्वात् , तस्मादपनीयत एव । प्रत्यक्षप्रमाणं चाऽविसंवादित्वात् प्रत्यय इष्यते । न तु परोक्षम् । मति-श्रुते च उभये अपि परोक्षज्ञाने । तस्मात्तयोः सम्प्रत्ययो नास्तीति अवध्यादि विषय एव प्रत्ययः ॥२६०६।।
एवं तर्हि सामायिकं प्राप्य केवलज्ञानमेव प्रत्ययो युक्तः सर्वद्रव्यपर्यायविषयत्वात् केवलस्य । सामायिकं चात्मपरिणामत्वादरूपम् । रूपिद्रव्यनिबन्धके चावधि-मन:पर्यायज्ञाने । तस्मात्तयोरविषयः सामायिकमिति । त्रिविधश्चावध्यादिप्रत्ययः सूत्रे वर्णितः । स कथमित्युच्यते. जुत्तमिह केवलं चे पच्चयो णोधि-माणसं गाणं । पोग्गलमेत्तविसयतो सामइयारूवता जं च ॥२६०७॥ जं लेस्सापरिणामो पायं सामाइयं भवत्यस्स । तप्पच्चक्खत्तणतो तेसिं तो तं पि पच्चक्खं ।।२६०८॥
जुत्तमित्यादि । जं लेस्सा० गाहा । इह सामायिक जीवस्य-भवस्थस्येति वचनात्-सव्यलेश्यापरिणामसंग्रहार्थम् --प्रायेण लेश्यापरिणामो विशुद्धः । प्रायोग्रहणादात्मस्वरूपमपि सामायिकम् । यदा च लेश्यापरिणामः सामायिकलेश्या
१ गिद' को हे । २ प्रन्ययाति । स-- इति प्रतौ । ३ 'गाइदि' को हे त । ४ यनिहूँ त । '५ °स्य च सा--इति प्रतौ । ६ चेव को हे त.। ७ लेसा को हे।
For Personal and Private Use Only
Jain Educationa International
www.jainelibrary.org