________________
नि० ५२३]
उपोद्घाते कारणद्वारम् ।
४९१
पूर्वं ध्रुवमपादानसंज्ञं भवति । एवं च सिद्धं पुरुषपतनक्रियया वक्तुर्विवक्षितया स्वल्पयापि पुरुषोऽपायवान् - गतिमान् चल इत्यर्थः । तया पुरुषाधारया क्रियया वैस्त्वन्तराश्रितया एकद्रव्यं कर्मेति धावन्नव्यश्वो निष्क्रियो ध्रुवः, अश्वक्रियाया अविवक्षितत्वात्, 'धावतोऽधात् पतितः' इति अश्वस्यैव ध्रुवस्यापादानसंज्ञा “विवक्षातः कारकाणां प्रवृत्ति:" [ ] इति न्यायात् । अत एव च विवक्षाधीनं ध्रुव - चलत्वमित्यनेकमपादानं प्रदशितमाचार्येण । पिण्डापायात् पिण्डापगमाद्विवक्षिताद्भुवो ध्रुवत्वादपादानसंज्ञा 'भुवः पिण्डो निष्पद्यते ' इति । अथवा पिण्डो ध्रुवः 'पिण्डाच्छर्करादयः', चक्रं वा चलमपि विवक्षावशात् ध्रुवं चक्रात् कुम्भोऽवतार्थते । आपाको ध्रुवः 'आपाकात् कुम्भः उच्छ्रि ()ि यते । एतदपि विचित्रमपादानं कारणं कुम्भस्य, तद्भावे भावात् तदभावे चाऽभावात् मृदादिवदिति भावितमेव ५ || २५८९ ॥
अथाधिकरणं कारकम् - आधिक्येन करणं अधिकरणम्, स चाधारः, आधारेण विना सर्वकारणकार्याण्ययोग्यानि भवन्तीत्याधारस्याधिक्यम् । तदपि तद्भावभावित्वादभावेऽभावित्वात् कार्यस्य कारणं यथाविवक्षितम्-
वसुधागा चक्कं सरूवमिच्चादि सैणिधाणं जं । कुंभस्स तं पि कारण संभावतो तस्स जर्मसिद्धी || २५९० ॥
वसुधाऽऽगासं चक्कमित्यादि । कुम्भकार्यमाधेयं तस्याधारश्चकम्, चक्रस्यापि वसुधा, वसुधाया आधार आकाशम्, आकाशस्यान्य आधारो नास्ति, स्वरूपप्रतिष्टमाकाशम् तस्मान्निश्चयनयस्य वस्तु । वस्तुत्वात् कुम्भोऽपि स्वरूपाधार इति कार्थमेवाधारः कारकमधिकरणम्, कार्यमेव चाssधेयं कर्मविचारवत्, कार्यकारणयोरेकत्वमथ च नानावं षट्कारक [व्य ] प्रदेशादिति द्रव्यकारणमनेकधाऽभिहितम् ।। २५९० ॥
अथ भावकारणम्--भावात्मकं कारणं भावकारणम् । भावाच पट् औपशमिकादयः सान्निपातिक पर्यवसानाः । तेऽपि केचित् संसारकारणत्वादप्रशस्ताः, केचिद् मोक्षकारणत्वात् प्रशस्ताः । प्रशस्त मावेनाधिकारः, मोक्षशास्त्रस्य प्रस्तुतत्वात् । तत्प्ररूपणाय गाथात्रयम्-
भावम्मि होति दुविधं अपसत्य पसत्ययं च अपत्यं । संसार संकेविधं दुविधं तिविधं च विधं ॥ ५२३ । २५९१ ।।
१ वस्तूतरासृतया - इति प्रतौ । २ धातवोश्वोलरित इति इति प्रतौ । ३ सुधा । ४ 'मासं जे । ५ संनि को है । ६'मा को हे त ।
जदमि को है, जह सिं त । नायव्यं को हे त दी हा म ।
७ चावयें - इति प्रतौ । ९ ६२
Jain Educationa International
5
दुविहं च होइ भावे दी हा म । १०
For Personal and Private Use Only
www.jainelibrary.org