________________
४३९
नि० ४७९]
परलोकसिद्धिः। ते पव्वइते सोतुं मेतज्जो आगच्छती जिणस[१५८-द्वि०]गासं । वच्चामि णं वदामि' वंदित्ता पज्जुवासामि ॥४७७॥२४०४॥ आभट्ठो य जिणेणं जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य सवण्णूसव्वद रिसीणं ॥४७८।।२४०५॥ कि मण्णे परलोगो अस्थि णे अत्यि त्ति संसयो तुझं । वेतपताण य अत्थं ण याणसी तेसिमो अत्थो ॥४७९॥२४०६॥
ते पाइते । किं मण्णे इत्यादि । हे आयुष्मन् कौण्डिन्य मेतार्य ! परलोकास्तित्वे भवतः सन्देहः, सन्देहकारणं च लोकवेदयोरुभयथा प्रतिपत्तेः । केचिल्लोकिकाः "इन्द्रियप्रत्यक्षमेवैकं प्रमाणम्" इति वदन्तः परलोकं जीवं वा प्रत्यक्षाविषयत्वात् नेच्छन्ति, "एतावानेष पुरुषो यावानिन्द्रियगोचरः" इति । अन्ये लौकिकाः “आध्यात्मिकाः सहाताः सर्वे परार्थाः, सङ्घातत्वात् बाह्यशयनादिसङ्घातवत्" [ ] इत्याद्यनुमानैः
.. “किमत्राहं किमनहं, किमनेकः किमेकधा ।।
विदुषां चोद्यतं चक्षुरत्रैव च विनिश्चयः ॥१॥" इत्यादिभिश्च जीवास्तित्वमभीप्सन्ति । वेदोऽपि “विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति" इति परलोकनास्तित्वमनुवदति । तथा “अग्निहोत्रं जुहुयात् स्वर्गकामः" "स एष यज्ञायुधी यजमानोऽअसा स्वर्गलोकं गच्छति" [ ] इति परलोकास्तित्वमाह ॥२४०६।। ___एवमुभयथा श्रुतेः सन्देह इत्येतदर्थरूपप्रकाशनाय गाथाप्रपञ्चः-- मण्णसि जति चेतण्णं मज्जंगेमतो न भूतधम्मो त्ति। तो णयि परों लोगो तण्णासे जेण तण्णासो ॥२४०७॥
मण्णसि । भूतधर्मश्चैतन्यम् , तत्समुदायभावित्वात्, मद्याङ्गमदवत्, भूतविनाशे भूतविभागे वा चैतन्यविनाशेन भवितव्यम्, तध(द्ध)र्मत्वात् , मद्याङ्गमदवत्, तस्मान्नास्ति परलोकः, एकस्य संसत्तुरभावात् , गन्धवेनगरवत् ॥२४०७||
अह वि तयत्यंतरता ण य णिच्चत्तणमओ वि तदवत्थं । अणलस्स वे अरणीओ भिण्णस्स विणासधम्मस्स ॥२४०८॥
अह वि तयत्यंतरता इत्यादि । अथापि तच्चैतन्यं भूतेभ्योऽर्थान्तरमेव, विसदृशधर्मत्वात, तथापि तदनित्यं चैतन्यम्, विज्ञानमात्रत्वात्, तस्य चानित्यत्वात् परलोकसं
, 'दामी को हे त दी हा म । २ नस्थि त्ति को हे त दी हा भी । नत्थि म । ३ तुझ को हे त। ४ जह को। ५ मज्जगमउ को। गमउ हे। ६ नत्थी त । ७ पर हे त । ८ तद को हे। ९ वाऽर को हे ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org