________________
नि० ४७५ ] पुण्यपापसिद्धिः ।
४३५ कम्मप्पकरिस० गाहा । यत्र दुःखबहुलत्वं प्रकर्षदुःखानुभूतिरूपं तत् 'स्वानुरूपकर्मप्रकर्षजनितमिति पक्षः प्रकर्षानुभूतिवत् । यथा हि सौख्यप्रकर्षानुभूतिः स्वानुरूपपुण्यकर्मप्रकर्षजनितेति त्वयाभ्युपगम्यते तथेयमपि प्रकर्षानुभूतिरिति स्वानुरूपपापकर्मप्रकर्षजनिता भविष्यतीति प्रमाणफलम् ॥२३८६॥
तथ बज्झसाधणप्पगरिसंगभावादिहण्णधा ण तयं । विवरीतवज्झसाधणवलप्परिसं अवेक्खेज ॥२३८७॥
तघ वज्झसाध० इत्यादि । तथा उपपत्त्यन्तरमपि-तत् दुःखम् अन्तरङ्गकेवलपुण्य मात्रजनितं न भवति, आहारादिबाह्यसाधनकारणान्तरसापेक्षत्वात् । यत् कारणान्तरसापेक्षं तदेकनिर्वर्तकं न भवति, यथा निरुपकरणकुम्भकारः कुम्भनिर्वृत्तौ । दृष्टं च दुःखितहस्त्यादिदेहे विपरीताहारादिबाह्यसाधनसापेक्षत्वम् । तस्माद्दुःखितहस्त्यादिदेहे पुण्यापकर्षे पापकर्मप्रकर्षजनितत्वमप्यनुमीयते । अन्यथा नैव बाह्यसाधनप्रकर्षमपेक्षेत ॥२३॥ अपि च
देहो णावचयकतो पुण्णुकरिसे व मुत्तिमत्तातो । होज्ज व स हीणतरओ कधमसुभतरो महल्लो य ॥२३८८॥
देहो णावचयकतो इत्यादि । इतश्च दुःखितहस्त्यादिदेहः केवलपुण्यापचयमात्रकृतो न भवति, मूर्तिमत्त्वात् , मत्यन्तपुण्योत्कर्षजनितानुत्तरौपपातिकदेवदेहवत् , मनुष्य लोके वा चक्रवर्तिदेहवत् । यच्च पुण्यापचयमात्रकृतम् इति कल्प्येत तत्र मूर्तिमत्त्वमपि नास्ति यथा न कुत्रचित् वैधHदृष्टान्ते धर्म्यसिद्धिः प्रत्युतेष्टतरा । अथ कल्पनया वा भवेदपि - पुण्यापचयमात्रकृतत्वं दुःखितादिहस्त्यादिदेहे । तत्रेदमसि प्रष्टव्यः -कथमसौ पुण्योपचयजनित एवं न स्यात् ! अशुभतरत्वं तु युज्यते । महत्त्वं चाऽशुभत्वं चेति कथमेककारणजनितमुभयं स्यात् ? इति तन्महत्त्वं कारणान्तरजनितमिति स्वानुरूपपापप्रकर्ष सूचयति नारकदेहवत् । तस्मादेवमुपपत्तिभिः केवल. पुण्यपक्षस्य निराकरणं कृतमिति ॥२३८८॥ संक्षेपरुचिसत्त्वानुग्रहायाचार्यः केवलपापपक्षनिराकरणमि(म)तिदिशन्नाह'एतं चिय विवरीतं जोएज्जा सन्चपावपक्खे वि । ण य साधारणरुवं कम्मं तकारणाभावा ॥२३८९॥
१ स्नानु' इति प्रतौ। २ यतं त । ३ पगरिसं को हे। क्खेजा को हे। ५°रिस व त। 'रिसे व्व को । ६ एव म स्यात् इति प्रतौ । ७ तस्या देवमु-इति प्रतौ । ८ एवं को हे त । ९ इजा त । १० क्खेसु इति टीकायाम् ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org