________________
विशेषावश्यकभाष्ये
[नि०४७१"नयुक्तमिवयुक्तं वा यद्धि कार्य विधीयते ।
तुल्याधिकरणेऽन्यस्मॅिल्लोकेऽप्यर्थगतिस्तथा ॥१॥" एवं शब्दार्थानुगमात् दृष्टान्तसाधर्म्याच्च तिर्यङ्मनुष्याणां साधारणसुखदुःखानुभावित्वात् प्रकर्षाऽभाव एवेति । तस्मात् प्रकृष्टपापफलभुजस्तिर्यङ्मनुष्या न भवन्ति । अनुमानाच्च प्रकृष्टपापफलभोगिन आपद्यन्ते । तत एव सुरनरतिर्यगतिरिक्ताः नारकाः भविष्यन्तीति न सिद्धसाधनं किन्तु स्फुटमेवानुमानमिति ॥२३५४-५५॥
अथवान्यथानुमानप्रदर्शनी गाथा-- सच्चं चेतमकंपिय ! मह वयणातोऽवसेसवयणं व । सव्वण्णुत्तणतो वा अणुमतसव्वण्णुवयणं व ॥२३५६॥
सच्चं चेतमकंपिय मह वयणातो इत्यादि । हे अकम्पित ! नारकाः सन्तीत्येतद्वचनं सत्यम्, मदचनत्वात् अहिंसालक्षणधर्मवचनवत् । अथवा नारकाः सन्ती. त्येतद्वचनं सत्यम्, सर्वज्ञवचनत्वात्, उभयानुमतसर्वज्ञवचनवत् ।।२३५६॥ अथवा
भयरागदोसमोहाभावातो सच्चमणतिवातं च । . सव्वं चिय मे वयणं जाणयमज्झत्य[१५५-द्वि० वयणं व ॥२३५७॥
__ भयरागद्वेषमोहाभावादित्यादि । अनन्तरगाथायां मदचनत्वादिति हेतुरुपात्तः । अहिंसालक्षणधर्मवचनं सत्यत्वे साध्ये दृष्टान्तः साध्यविकल इत्याशङ्किते दृष्टान्तप्रसाधनप्रमाणमिदम्-सर्वमेव मद्वचनं सत्यं, भयरागद्वेषमोहासम्बन्ध(द्ध)त्वात्, उभयसिद्धज्ञमध्यस्थवचनवत् । द्वितीयप्रमाणे सर्वज्ञवचनत्वादित्युपन्यस्तो हेतुः ॥२३५७॥
तस्याऽसिद्धत्वाकाङ्क्षायां सर्वज्ञसाधनप्रमाणमिदं तस्मिन्नेव काले-- किध सव्वण्णु ति मती पच्चक्खं सव्यसंसयच्छेत्ता । भयरागदोसरहितो तल्लिंगाभावतो सोम्म ! ॥२३५८॥
विध सव्वण्णु त्ति मती इत्यादि । सर्वज्ञोऽहं प्रत्यक्षं भवतः सर्वसंशयोच्छेदात् । तथा भयरागद्वेषमोहविरहितश्चायं(हे) तल्लिङ्गाभावादित्यर्थः(र्थ)प्रदर्शनमात्रमेतत् । प्रयोगावेवम्-सर्वज्ञोऽहम्, अशेषज्ञेयस्य मदीयज्ञानविषयत्वात् । भयरागद्वेषमोहरहितोऽहं अभूततल्लिङ्गत्वात् , उभयसिद्धमध्यस्थपुरुषवत् । तेषां भयरागादीनां लिङ्गं आकुलत्ववेपथुस्मितप्रहर्षाक्षिभूविकारवैमुझ्याऽकार्यकरणादिकं तल्लिङ्ग[म्] । अभूतं तल्लिङ्गं यस्य
१ वाई को हे । २ सिद्धत्वासाका-इति प्रतौ। ३ च्छेया त । ५ 'रोग' हे। ५ प्रयोगवाभ्यन्तु अशेषज्ञेयं-इति प्रती।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org