________________
नि० ४७१] गणधरवादे नारकसिद्धिः ।
४२३ पुरुषादपनीतगृहाकाशस्थद्रप्टपुरुषवत् । निरावरणत्वादसौ सर्वदिग्विदिक्संस्थितार्थान् सुखेनैव पश्यति, सुबहूश्च पूर्वस्मात् सावरणात् पुरुषादिति । इन्द्रियाण्यन्तरेणापि ज्ञानसम्भव इति लोकेऽपि दृष्टम् , स्वप्ने निरुद्धाक्षमनःक्रियाणां ज्ञानं स्फुटं स्वानुभवेन सिद्धम् ॥२३५०॥
आत्मा न चेत्तत्परिणामहेतुः स्वान्नेन्द्रियार्थ न च तत्कुतोऽस्तु (?) । अथवा न प्रत्यक्षमिन्द्रियज ज्ञानं धर्मान्तरेणानेकरूपज्ञेयस्य विशिष्टमात्रग्राहित्वात् कृतकत्वसामान्यधर्मानुमित कुम्भानित्यत्वमात्रसामान्यधर्मज्ञानवत् । एतदर्थमियं गाथा--
[१५५-५०]ण हि पच्चक्खं धम्मंतरेण तद्धम्ममेत्तगहणातो । कतर्कत्ततो वे सिद्धी कुम्भाणिवत्तमेत्तस्स ॥२३५१॥
ण हि पच्चक्खं । इन्द्रियाणि हि परप्रवादिनां केषाञ्चित् प्रकृतिविकाराहंकारनिष्पन्नानि, केषाञ्चिद् पस्कन्धस्य कश्चित् प्रतिविशिष्टः प्रसादः, सर्वेषां मूर्तानि,
आत्मनः पृथग्भूतानि, अचेतनानि । तानि च करणानि स्वविषयपरिच्छेदात्मकानि । विषयाश्चक्षुरादीनां रूपादयः । तज्जं च प्रत्यक्षलक्षणमनेकधा--"इन्द्रियार्थसन्निकर्षोंत्पन्नं ज्ञानमव्यपदेश्यमयभिचारि व्यवसायात्मकं प्रत्यक्षम्" [न्या० १. १. ४ । तथा "श्रोत्रादिवृत्तिः प्रत्यक्षम्" वार्षगण्यः । “सत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षम्' [मी० १. १. ४] । तथा "यद् ज्ञानमर्थे रूपादौ विशेषेणाभिधायकाभेदोपचारद्वारेणाविकल्पकं तदसाधारणकारणत्वादक्षमक्षं प्रति वर्तत इति प्रत्यक्षम्" । अक्षाणि चेन्द्रियाणि केनचिदंशेन शक्तिरूपेण धर्मेण स्वविषयं परिच्छिन्दन्ति, न सर्वधर्मैः सत्त्वद्रव्यत्वभौतिकत्वादिभिर्विद्यमानैरपि । रूपादेरनेकधर्मणः किञ्चिदेकं धर्ममव्यपदेश्यमसाधारणं केषाञ्चित् कल्पनापोढत्वादविकल्पकम्, स्वरूपविकल्पेन स्वसंवेद्येन विकल्पकम् , परिच्छिन्दन्ति, न सर्वैर्धमै : सर्वव्यत्वादिभिर्यत उक्त
"अनेकधर्म गोऽर्थस्य नेन्द्रियात् सर्वथा मतिः । स्वसंवेद्य[म निर्देश्यं रूपमिन्द्रियगोचरः ॥१॥" [प्रमाणसमुच्चय-१. ५]
तस्माद्धर्मान्तरेण शक्या(शौक्ल्या)दिना रूपादेरसाधारणधर्ममात्रस्य ग्राहीणीन्द्रियाणि तज्ज्ञानं चेति पक्षधर्मः, धर्मान्तरेण तद्धम्ममेत्तगहणाओ । पश्चाईन दृष्टान्तः कृतकत्वादिवत् कुम्भानित्यत्वमात्रस्य या सिद्धि: उपलब्धिः, सा यथा न प्रत्यक्षम् , एवमिन्द्रियजज्ञानमित्युपसंहारः ॥२३५१॥ अथवा
१ णाम-इति प्रतौ। २ अत्र ‘हेतुः स्यादिन्द्रियार्थज्ञानं कुतोऽस्तु' इति वाच्यं स्यात् ३ कतगत्त को हे । ४ व्य को।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org