________________
४२१
नि० ४७१] गणधरवादे नारकसिद्धिः।
ते पव्वइते गाहा । आभट्ठो य० । किं मण्णे णेरइया । तं मण्णसि पच्चक्खा । हे अकंपित आयुष्मन् गौतम ! त्वं मन्यसे प्रत्यक्षप्रमाणसिद्धाश्चन्द्रादयोऽन्ये वाऽदृष्टा अपि विद्यामन्त्रोपयाचनफलदर्शनानुमानसिद्धा देवाः सन्तीति गम्यते ॥२३४०-४३।।
जे पुण मुतिमेत्तफला णेरइय त्ति किध ते गहेतव्या । सक्खमणुमाणतो वाऽणुवलंभा भिण्ण जातीया ॥२३४४॥
जे पुण मुतिमेत्तफला गाहा। ये पुनर्नारका इत्यभिधानमात्रश्रुतिरेव फलं येषां न शब्दव्यतिरिक्तार्थस्ते कथं सन्तीति ग्राह्याः ? अतस्तदभावप्रतिपादनाय प्रमाणम्-न सन्ति नारकाः, साक्षादनुमानतो वाऽनुपलभ्यमानहेतुत्वादित्यर्थः । सामान्यपुरुपेन्द्रियकप्रत्यक्षानुपलभ्यमानत्वादित्यभिप्रायः ॥२३ ४४॥
अथैत घणं विरुद्धाव्यभिचार्यनैकान्तिकत्वेनासिद्धत्वोद्भावनेन चेति गाहामह पञ्चक्खत्तणतो जीवादीए य णारए गेहै । किं जं सप्पच्चवखं तं पच्चक्खं णवरि एक्कं ॥२३४५॥
मह गाहा | भगवानाह-विद्यमानानुपचरितबाह्यार्थो नारकशब्दः, मया प्रत्यक्षदृष्टत्वात् जीवाजीवादिशब्दवत् । एवं नारका स्तित्वसाधनं प्रति प्रमाणेनानेन विरुदाव्यभिचारिता । पूर्वप्रमाणस्यासिद्धादिदोषदुष्टवादसाध्यसाधनत्वादनेनैवानुमानविरोधः । अथवा साक्षादनुपलभ्यमानत्वात् खपुष्पवत् भिन्नजातीया देवेभ्य इति । देवेति [वै]धर्म(H)दृष्टान्तः । साक्षादनुपलभ्यमानत्वादित्यन्यतरासिद्धहेतुता ममैते केवलज्ञानप्रत्यक्षत्वान्नारकाः प्रत्यक्षाः, भवतस्त्वप्रत्यक्षाः नारकाः । अयं च ते दुरभिप्रायो कंपित ! सौम्येति काका प्रश्नेनैव परपक्षनिराकरणम् । किं यत् स्वप्रत्यक्षं तदेव नवरमेकं प्रत्यक्षम् , अन्यस्य प्रत्यक्षं न भवतीति दुष्टच्यते ॥२३४५॥ यतः
जं कासइ पच्चक्खं पच्चक्खं तं पि घेप्पते लोए । जध सीहातिदरिसणं सिद्धं ण य सव्वपच्चक्खं ।।२३४६॥
जंकास० गाहा। यत् कस्यचित् प्रत्यक्षं तदपि लोके प्रत्यक्षमेव, केनचिद् दृष्टत्वात् , दूरदेशवर्तिसिंहादिवत् । तस्माद् भवदादीनामप्रत्यक्षा अपि नारकाः मम प्रत्यक्षा इति सिंहादिनिदर्शनेन भवतामपि प्रत्यक्षा इत्युभयाऽसिद्धः प्रत्यक्षतोऽनुपलभ्यमानत्वहेतुः ॥२३४६॥
१ वाईय व्य णा' को हे त । २ गिण्ह हे ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org