________________
५४
विशेषावश्यकभाष्ये
जध देहत्थं चक्खुं जंप्पति चन्द्रं गतं ति ण य सच्चं । रूढं मणसो वि तथा ण य रूढी सच्चिया सव्वा ॥ २३५ ॥
पोग्गल० गाहा । जध दे० गाहा । यच्च लोकेऽपदिश्यते 'अमुत्र मे गतं मनः' इति तद्रूढिमात्रकमेव । यथेह देहस्थमपि चक्षुः 'चन्द्रमसं गतम्' इति व्यपदिश्यते । न च रुढिवश्यं सर्वैव सत्येति || २३४|| २३५||
*सियम संपत्तस्स व संविज्जति वंजणोग्गहो मणसो । जमसंखेज्जसमयिओ उवयोगो जं च सव्वे ॥ २३६|| समएस मणोद व्वाई गेण्हते जणं च दव्वाई | भणितं संबंधो वा तेण तयं जुज्जते मणसो || २३७ ||
विसय० गाहा । समए० गाहा । आह - - यद्यपि विषयमसम्प्राप्य गृह्णाति मनस्तथाप्यस्य व्यञ्जनावग्रहो जुज्यत एवं, असंख्येय समयत्वादुपयोगस्य, प्रतिसमयं च मनोद्रव्योपादानात् द्रव्याणां च व्यञ्जनव्यपदेशात्, तत्सम्बन्धस्य वा. श्रोत्रेन्द्रियावग्रहवत् । यथेह श्रात्रेन्द्रियेण शब्दद्रव्याणि प्रतिसमय माददानस्य व्यञ्जनावग्रहो भवत्यसंख्येयसमयस्तदन्ते चार्थावग्रहः तन्मनसोऽपीति ॥ २३६-२३७॥
risगतस्स सिकायहितयादियं विचितयतो । यस्स वि संबन्धे वंजणमेवं पि से जुत्तं ॥ २३८ ॥
देहा ० ० गाहा । अथ अनिश्चरितस्यापि च स्वदेहात् स्वदेह [हृद्]देशमनुचिन्तयतः तज्ज्ञेयसम्बन्धे सति प्राप्तकारिता तावद् व्यञ्जनावग्रहश्वोभयमालक्ष्यत इति ॥ २३८ ॥
Jain Education International
गैज्झस्स वंजणाणं जं गहणं वंजणोग्गहो स मतो ।
गहणं मणो ण गज्झं को [१७] द्वि० ] भागो वंजणे तस्स ? || २३९ ॥
गज्झस्स गाहा । यत्तावदुक्तम्- अनुसमर्थ द्रव्योपादानात् व्यञ्जनावग्रह इत्यत्र ब्रूमः । ग्राह्यस्य [संबन्धिनां] व्यञ्जनानां यदुपादानं स व्यञ्जनावग्रहः, यथा शब्दादिद्रव्याणाम् । ग्रहणं च मनः, न ग्राह्यमित्यसमञ्जसम् । न च स्वदेह [ हृद् ] देश सम्बन्धमात्रात् प्राप्तकारिता युक्ता । किं हि स्वदेश न सम्बद्धम् । ज्ञानस्यात्मदेशसम्बन्धात् प्राप्तकारिता स्यात् । पारिशेष्याद् ग्राह्यार्थापेक्षया प्राप्तकारितेति ॥ २३९ ॥ अतोऽपि हि व्यञ्जनावग्रहपरिकल्पनमयुक्तम्
१ जंपर को है । २ चो० वि जे । ३ देहादणि को है त । ४ आ० को हे । ५ गिज्जन को हे ।
For Private & Personal Use Only
गज्झ जे । गिज्झ
www.jainelibrary.org