________________
विशेषावश्यकभाष्ये सिमिणो ण तधारूवो वभिचारातो अलातच व ।
वभिचारो य सदसणमुवधाताणुग्गहाभावा ॥२२३॥ सिमिणो गाहा । इह यत्स्वप्नेन(°प्ने) देवागमनादिक्रियारूपं तदसद् , व्यभिचारादलातचक्रवत् । इह यथाऽलातं परिभ्रमच्चक्रवदुपलभ्यते भ्रमणोपरमे त्वलातमेवेति । एवं स्वप्नेऽपि व्यभिचारो दृष्टः, स्वरूपदर्शनादनुग्रहोपघाताभावाच्चेति ॥२२३।। कथं पुनः--
इध पामुत्तो पेच्छति सदेहभण्णत्थ ण य तओ तत्थ ।
ण य तग्गतोवघाताणुग्गहरूवं वियुद्धस्स ॥२२॥
इध पा० गाहा । इह यः सुप्तः स देशान्तरेऽपि स्वं रूपं पश्यति । न चासौ तत्र, यतः शयानमिहेनमनो (°मिहैवान्यः) पश्यति । न च विबुद्धस्य सतः तदगतोपघातानुग्रहरूपमस्तीति ॥२२४।। आह ----
[१६-द्वि०]दीसंति कासइ फुडं हरिसविसादादयो विबुद्धस्स ।
सिमिणाणुभूतमुहदुक्खरागदोसादिलिंगाई ॥२२५॥
दीसंति गाहा । इह कस्यचिद् बुद्धस्यापि सतो हर्पविषादादयो लक्ष्यन्ते स्वप्नानुभूतसुखदुःखरागद्वेषादिलिङ्गानि । अतः स्वप्नक्रिया सत्येति ॥२२५|| उच्यते
ण सिमिणविण्णाणातो हरिसविसादादयो रुिझंवित । किरियाफलं तु तित्तीमदवधवंधादयो णत्थि ॥२२६॥
ण सिमि० गाहा । इह न स्वप्नविज्ञानात्तत्र विवुद्धस्य वा हर्षादयो [विरुद्धाः] लक्ष्यन्ते, स्वप्नस्य विज्ञानमयत्वात् , हर्षादीनां च विज्ञानधर्मत्वात् । जाग्रद्विज्ञानहर्षादितृप्त्यादिक्रियाफलं तु नेप्यते इति ॥२२६॥ आह
"सिमिणे वि सुरतसंगमकिरियासंजणितवंजणविसग्गो।
पडिवुद्धस्स विकासयि दीसति सिमिणाणुभूतफलं ॥२२७।।
सिमिणे गाहा । स्वप्नेऽपि योपित्सङ्गमक्रियाविर्भूतः शुक्रविसर्गः कस्यचिद्विबुद्धस्यापि लक्ष्यते । तेनानुमीयते योपित्सङ्गमक्रियाप्यासीदिति ॥२२॥
'सो अज्झवसाणकतो जागरतो वि जध तिव्यमोहस्स ।
तिव्यज्झवसाणातो होति विसग्गो तधा "सिमिणे ॥२२८॥ १ सुमि को। २ रागहोसा त। ३ आ. ण जे । णसुमि त । ४ विसासादयो हे को। ५ सुमि त। ६ कस्सइ त को है। ७ :सुमित । ८ भूइफ को । ९ आ० सो जे। १० सुमित को है।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org