________________
मतिनिरूपणम् ।
ईहा गाहा । इह केचित् संशयमात्रमीहेति मन्यन्ते । तच्च न संशयस्याज्ञानवत् (नत्वात् ) । मतिज्ञानांशश्चेहा ॥१८१॥ आह–कस्तर्हि संशयेहयोः प्रतिविशेष इत्युच्यते
जमणेगत्थालंवणमपज्जुदासपरिकुंठितं चित्तं ।
संयति व सबप्पयतो तं संसयरूंबमण्णाणं ॥१८२।।
जमणे० गाहा । इह यत्स्थाणुपुरुषादिविशेषाननेकाननालम्बते, न च कञ्चन ब्युदस्यति, तदव्युदासपरिकुण्ठितं च सर्वात्मना शेत इव चेतस्तत्संशयात्मकमज्ञानमुच्यते ॥१८२॥
तं चित्र सदत्यहेतूववत्तिवावारतप्परममोहं ।
भूताभूतविसेसादाणच्चायाभिमुहमीहा ॥१८३॥
तं चित्र गाहा । यत्पुनस्तदेव चेतः सदर्थे भूतेऽर्थ हेतूपपत्तिव्यापारपरम्--- हेतुः साधनम् , उपपत्तिः सम्भवः, तदन्वेषणव्यापारपरमित्यर्थः । अमोघमविफलमर्थपरिच्छेदभावीत्यर्थः । सद्भतार्थविशेषोपादानाभिमुखम् , असद्भूतार्थविशेषत्यागाभिमुखं च तदीहेत्युप(त्यय) संशयेहयोर्विशेपः ॥१८३॥
केई तदण्णविसेसावणयणमेनं अवायमिच्छन्ति । ___ सब्भूतत्थविसैसावधारणं धारणं वेन्ति ॥१८४॥
केई न० गाहा । तदित्यनेन भूतार्थः सम्बध्यते । तस्मादन्यो यस्तत्प्रतियोगी तत्राभूतः पुरुषः स्थाणुर्वेति । तद्विशेषाश्चलनादयो वयोनिलयनादयश्च । तदपनयनमात्रं तव्युदासमात्रमपाय अपनयनमपाय इति मन्यमानाः । सद्भतार्थविशेषावधारणा धारणेति सद्भतार्थविदशेपानुगमनमित्यर्थः ॥१८४॥ अत्रेदमुच्यते
• कासयि तदण्णवइरेगमेत्ततोवगमणं भवे भूते।
सम्भूतसमंणयतो तदुभयतो कासइ ण दोसो ॥१८५॥
कासयि गाहा । इह कस्यचिदसद्भूतस्य प्रतियोगिनोऽर्थस्य व्यतिरेकमात्रादेव भूतेऽर्थसम्प्रत्ययो भवेत् । तद्यथा-नात्र वयोनिलयनादयः, तस्मान्नायं स्थाणुः, पारिशेष्यात् पुरुष इति । तथा कस्यचिद् सद्भतार्थविशेषसमन्वयमात्रादेव स्याच्चलनादिलिङ्गोपलम्भात् पुरुष इति । कस्यचिच्च स्थाणुविशेषव्यतिरेकात् पुरुषविशेषसमन्वयाच्चेति न दोषः ॥१८५|| १ सेय इव को हे। २ साविण त । ३ आ० कास जे । कासइ को हे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org