________________
२४
विशेषावश्यकभाष्ये कैसिंचि गाहा । इह 'केपाञ्चिद्' वैशेपिकादीनां अक्षाणि इन्द्रियाणि, तदुपलब्धिः प्रत्यक्षम् । तदिहोच्यते---नोपलब्धिमन्तीन्द्रियाणि, अचेतनत्वात्. घटवत, तथा मृत्तिमत्त्वात् स्पर्शवत्वादित्यादि ॥११॥
उवलद्धा तत्थाता तचिगमे तदुवलद्धसरणातों।
गेहगवक्खोवरमे ति तदुवलद्धाणुसरिता वा ॥९२॥
उवलद्धा गाहा । आह-प्रत्यक्षविरुद्धमिदमुच्यते---'नोपलब्धिमन्तीन्द्रियाणि' साक्षादुपलब्धेः । उच्यते- उपलब्धा तत्राऽऽ-मा, नेन्द्रियाणि । कुतः । तदुपरमेऽपि तदुपलब्धार्थानुस्मरणात् । इह यो हि येपूपरतेप्वपि यदुपलब्धानर्थान् स्मरति स तत्रोपलब्धा दृष्टः । तद्यथा---गवाक्षोपलव्धानामर्थानामनुस्मत देवदत्तः । यदि पुनरिन्द्रियाण्युपलम्भकानि स्युः तदुपरमेऽनुस्मरणं न स्यात् । अस्ति च तत् । तस्माद् नोपलब्धिमन्तीन्द्रियाणि । आह ----कस्यायं पक्ष: 'स्वतन्त्राणीन्द्रियाण्युपलम्भन्ते, नात्मा इति' ? किन्तु यदीन्द्रिय-मनोनिमित्तमात्मनस्तत् प्रत्यक्षं ब्रूमः । उच्यते ननूक्तं 'परोक्षम्, इन्द्रियमनो निमित्तम्, आत्मनः परनिमित्तत्वात् . अनुमानवद् , इति । ॥९३॥
इंदियमणोणि मित्तं परोक्खमिह संसयाईभावाओ। ___ तकारणं परोक्खं जहेह साभासमणुमाणं ॥१३॥
इदियमणा० गाहा । इतश्चेन्द्रिय-मनोनिमित्तमात्मनः परोक्षम् । कुतः संशयादिसद्भावात् । इह यत्र संशय-विपर्ययानध्यवसायानिर्णयाः सम्भवन्ति तत् परोक्षं तु दृष्टम, यथाऽनुमानमनुमानाभासाश्चासिद्ध विरुद्धानकान्तिकाः, यच्च प्रत्यक्षं न तत्र संशयादयः, यथाऽवध्यादिपु ॥९३॥
होन्ति परोक्खाई मईसुयाई जीवस्स परणिमित्ताओ ।
पुबोवलद्धसंबन्धसरणओ वाणुमाणं व ॥१४॥ हांति परो गाहा । इदानीं विशष्यपक्षः क्रियते--मति-श्रुते परोक्षम् , आत्मनः परनिमित्तत्वात् . अनुमानवत् । तथा पूर्वांपलब्धसम्बन्धानुस्मरणात् . इह यत् पूर्वोपलब्धसम्बन्धानुस्मरणाद् विज्ञानमुत्पद्यते तत् परोक्षं दृष्टम्, यथा धूमदर्शनादग्निधूमसम्बन्धानुस्मरणमनुमानमग्नाविति ॥९४||
एगंतेण परोक्खं लिंगियमोहाइयं च पञ्चक्खं ।
दियमशीभवं जं तं संवटारपञ्चखं ॥९५॥ १ या को है । : ओ को है । : 'या को है। ४ नि को है । ५ ‘यादि को है। ६ मई त । सुता जे । ८ नि को है । ९ माणाओ त । १० "रणाम प्रतौ'।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org