________________
२७८
विशेषावश्यकभाष्ये तम्हा जं णिदिसति तदुवयुत्तो स तम्मओ होति ।
वत्ता वयणिज्जातो'ऽणण्णो त्ति समाणलिंगो सो ॥१५२६।। । तम्हा माहा । तस्मादुपयुक्तोऽयमर्थमाह । स तद्विज्ञानानन्यत्वात् तन्मयत्वाच्च तत्समानलिङ्गाभिधानः ।। १५२६ ।।
सामाइयोरजुत्तो जीवो सामाइयं सतं चेव ।
णिदिसति जतो सचो समाणलिंगो स तेणेव ॥१५२७||
सामा० गाहा । सामायिकोपयुक्तश्च वक्ता सामायिकानन्यत्वात् सामायिकमभिदधानः स्वात्मानमेवाह यतस्तस्मात्तत्समानलिङ्गाभिधान एवासी, रूद्वितश्च सामायिकार्थरूपस्य नपुंसकत्वात् स्त्रियाः पुंसो नपुंसकस्य वाऽभिधानस्य नपुंसकलिङ्गनिर्देश एव । आह -- यदि . पुनर्भाववैविध्यादुभयनिर्देशोऽपि स्यात्-द्विविधो हि भावो विज्ञानं परिणतिश्च, भावाभिधायिनश्च शुद्धनयाः, तत्र यदा पुमानुपयुक्तः स्त्रियमाह तदा वक्तुः स्त्रीविज्ञानानन्यत्वात् स्त्रीनिर्देशः, पुंस्त्वपरिणतिमयत्वाच्च पुन्निर्देश इति । उच्यते--सति भाववैविध्ये विज्ञानमेवेहाधिक्रियते, न परिणतिः, विज्ञानमयत्वात् भावनिर्देशस्य । आह-ननु शब्दोऽपि निर्देश एवेति । उच्यते-न, तस्य द्रव्यमात्रत्वात् भावग्राहित्वाच्च शब्दनयस्य । आह-ननु शब्द. प्रधान एवं शब्दनयः । उच्यते-न, अर्थापरिज्ञानात् । इह शब्दनयः शब्दपृष्टेनाथ गमयति, तत्कारणत्वाद्विज्ञानस्य, कारणस्य द्रव्याभिधानात् , द्रव्यस्य च भावशून्यत्वात् , भावमात्रग्राहित्याच्च शब्द नयस्य, न शब्दगात्रवस्तुप्रधानता युक्तेति । आह-यधुपयुक्तोऽभिधानात् यं यमर्थमाह तद्वशान्निर्देश्यस्ततो निर्देश्यवस्तुवशान्निदेश्य इति सङ्ग्रहव्यवहारयोरस्य च को विशेपः ? उच्यते-तयोरुपयुक्तस्यानुपयुक्तस्य वा वक्तुरात्मनिरपेक्षाभिधेयमात्रवशात् शब्दमात्रमेव निर्देशः । इह तु बाह्यं वस्तु विज्ञानप्रत्ययमात्रमूरीकृत्याभिधेयोपयोगानन्यत्वादभिधातुः स्वरूपमेवाधिक्रियते निर्देशः । माह-ययेवमृजुसूत्रादस्य को विशेषः ? तस्यापि हि निर्देशकवशान्निर्देशः । स एवेहातीति । उच्यते-ऋजुसूत्रस्यानुपयुक्तस्यापि वक्तुभिधानमात्रकं न विज्ञानमेवेत्ययं विशेषः ।। १५२७ ॥
इय सम्बणयमताई परित्तविसयाई समुदिताई तु ।
जइणं वज्झन्भन्तरणिदेसणिमित्तसंगाहि ॥१५२८॥ दारं ॥
इय गाहा । इत्येवं सर्वनयमतान्यप्यमूनि पृथक् परीत्तविषयत्वादप्रमाणम् , एतान्येव संहितानि जिनमतम् , अन्तर्बाह्यनिमित्तसामग्रीमयत्वात् , प्रमाणं चेति ॥१५२८॥
[उपोद्घातद्वारविधिविवरणे द्वितीयं निर्देशद्वारं समाप्तम् ]
१ जाओ अनन्नो हे । २ 'धयस्स तु च शब्द-इति प्रतो । ३ र भि इति प्रतो ४ इह त । ५ गाही त ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org