________________
२७७
निर्देशविवरणम् । सदो समाणलिगं' णिदेसं भणति विसरिसमवत्थु ।
उवयुत्तो 'णिदेठा 'णिदेसातो जतोऽणण्णो ॥१५२१।।
सदो गाहा । शब्दादिनयः समानलिङ्गमेव निर्देशमिच्छति, न भिन्नलिङ्गम् , यतः किलोपयुक्तो निर्देष्टा निर्देश्यादभिन्नः सदुपयोगानन्यत्वात् ।।१५२१ ॥
*थिं णिदिसति जति पुमं थी चेव तो जतो तदुवयुत्तो ।
थीविण्णाणाऽणण्णो णिद्दिष्ठसमाणलिंगो त्ति ॥१५२२॥
थिं णि० गाहा । पुंसः पुमांसमभिदधानस्य पुन्निद्देशः, स्त्रिया स्त्रियं स्त्रीनिर्देशः, नपुंसकस्य नपुंसकं नपुंसकनिर्देशः । यदापि हि " पुमान् स्त्रियमभिधत्ते तदापि हि तदुपयोगानन्यत्वात् स्त्रीरूप एवासाविति निर्देश्यनिर्देशकयोः समानलिङ्गतैव । तथा नपुंसकमभिधानो नपुंसकमेवेति समानलिङ्गता । एवं स्त्रीनपुंसकयोरप्यायोजनीया ॥१५२२।। यः पुनरसमानलिङ्गो निर्देशो यथा पुमांस्त्रियं वाऽऽहेति सोऽस्य वस्त्वेव न भवति । कथम् ?
जति स पुमं तो ण त्थी अध थी ण 'पुमण्ण वा तदु[९९-द्वि०]वयुत्तो। जो "त्थीविण्णाणमयो णों थी सो सम्बधा पत्थि ॥१५२३।।
जति गाहा । स यथुपयुक्तः पुंविज्ञानानन्यत्वात् पुमानतः स्त्री न भवति । उत स्त्रीविज्ञानानन्यत्वात् स्त्रीत्यतो न पुमान् । न वा तदुपयुक्तः । अथोपयुक्तः, स्त्रीविज्ञानमयत्वात् , कथं न स्त्री ? यश्च स्त्रीविज्ञानमयो न स्त्री, सर्वथा नास्ति, विरुद्धत्वात्, अचेतनात्मव्यपदेशवत् , अश्रावणशब्दाभिधानवद्वा ॥ १५२३ ॥
भासति वाऽणुवयुत्तो जति अण्णाणी तओ ण 'तव्ययणं ।
णिदेसो जेण मतं 'णिच्छितदेसो ति णिदेसो ॥१५२४॥
भासति गाहा । अथानुपयुक्तोऽभिधत्ते, ततोऽसावज्ञः, अनुपलम्भात्, न तद्वचनं निर्देशः, यतोऽभिमतं निश्चित्य देशो निर्देशः, निश्चितदेशो वा निर्देशः ॥१५२४।।
सो जति णाणुवयुत्तोऽणुश्युत्तो वा ण णाम णिदेसो । णिदेसोऽणुवयुत्तो य येति सदो ण तं वत्थु ॥१५२५॥
सो जति गाहा । स यदि निश्चितदेशो निर्देशः, न नाम तदाभिधानानुपयुक्तः । अथानुपयुक्तः, न तद्वचनं निर्देशः। निश्चितविज्ञानोऽनुपयुक्तश्चेति विरुद्धत्वादवस्तु शब्दनयोऽभिमन्यते ।। १५२५ ।।
१ लिंगे जे । २ णिदिवा जे। निहिस्साओ हे । ४ थी त को हे । ५ पुंसा स्त्रि-इति प्रतो । ६ पुस न वा को हे । . धी को हे । ८ तं वय जे त । ९ मतं नत्थि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org