________________
२२३
परणप्रशंसा । ण य गाहा [२] । न च क्रियापि सर्वथा शुद्धयेऽलं अप्रकाशकधर्मत्वात् । इह यदप्रकाशस्वभावं न तत् सर्वशुद्धयेऽलं दृष्टम् , यथा न सर्वगृहमलविशुद्धयेऽन्धक्रिया, चक्षुष्मतो वा तमोगृहमलविशुद्धिक्रिया । यच्च सर्वथा विशुद्धयेऽलं न तदप्रकाशस्वभावकं यथेह चक्षुष्मतो विदापितगृहमलापनयनक्रिया दीपादिक्रिया॥११६९।। ॥११६९।।
तध णाणदीवविमलं तरकिरियासुद्धकम्मयकयारं ।
संजमसंवरितमुहं जीवघरं होति सुविसुद्धं ॥११७०॥ .. तध गाहा। इह ज्ञानसंयमतपस्वि(स्त्रि)समुदाये सति शुद्धिरधिक्रियते प्रकाशासंवरणक्रियापनयनसद्भावात् । इह यत्र प्रकाशसंवरणापनयनक्रियासद्भावस्तत्र शुद्धिरवश्यंभाविनी, यथा देवदत्तनयनप्रदीपादिप्रकाशमलागमनरन्ध्रस्थगनाशेपरजोपनयनक्रियायां गृहविशुद्धिः । यत्र च न शुद्धिर्न तत्र प्रकाशादिक्रियासद्भावो यथा चेष्टान्धगृहसमुदाये । अथवा पञ्चावयवप्रयोगोऽयम्-यथेह ज्ञानादित्रयसमुदाये सति शुद्धिः प्रकाशादिक्रियासद्भावात् गृहप्रकाशसंवरणमलापनयनक्रियावत् । यथा देवदत्तनयनप्रदीपादिप्रकाशगलापगमनरन्ध्रस्थगनाशेषरजोपनयनक्रियाभिर्वेश्मनः शुद्धिरासाद्यते, तथेहापि ज्ञानलोचनादिप्रकाशसंयमनकर्ममलापगमरन्ध्रस्थगनतपोविशेषाशेपकर्मरजोपनयनक्रियाभिरात्मगृहशुद्धिरनुमन्तव्या । तस्मात् प्रकाशादिक्रियासद्भावात् ज्ञानादित्रयसमुदाये सति शुद्धिरिति साधूक्तम् ॥११७०॥ आह-ज्ञानक्रियाद्वयसंहतिरिष्टप्रसाधनमुक्त्वा कथमिहेदानी ज्ञानादित्रयमङ्गीक्रियते ? संजमतवोमयी जं संवरणिज्जरफला मता किरिया । तो तिगसंजोगो वि हु ताओ'च्चिय गाणकि[७६ द्वि०]रियाओ ॥११७१।।
संजम० गाहा । उच्यते यत् संयमतपोमयी संवरनिर्जराफला क्रियैव अतस्त्रयसंयोगोऽपि ज्ञानक्रियाद्वयमेवेति । आह-ननूक्तं “सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः"
तत्त्वा० १. १.) इह सम्यग्दर्शनपरित्यागादसाधनम् । तत्र केचिदाचक्षते सम्यग्दर्शनादीनां पूर्वस्य लाभे भजनीय[मुत्तर] मुत्तरलाभे तु नियतः पूर्वलाभ इति ज्ञानग्रहणादेव सम्यग्दर्शनावरोधः । तच्च न, क्रियामात्रग्रहणप्रसङ्गात् । यतः क्रियालाभे नियतः सम्यक्त्वज्ञानलाभः । इदमपि च न मृप्यते-सम्यक्त्वज्ञानयोः पूर्वस्य लाभे भजनीयमुत्तरम् , अनागमात् । न क्वचिदागमोऽस्ति ज्ञानशून्यं सम्यक्त्वमिति । अन[व]बुद्धे च श्रद्धानाभावः । १ ताउ को हे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org