________________
२१८
विशेषावश्यकभाष्ये तंध णाणलद्धणिज्जामोऽवि सिद्धिवसधि ण पाउणति । णिउणो वि जीवपोतो तवसंजममारुयविहीणो ॥९६॥११४३॥
तध गाहा । तथेह सुविमलश्रुतज्ञानप्राप्तनिर्यामकोपि सुनिपुणमतिविशेषकर्णधाराधिष्टानोऽपि संयमतपोनियममारुतसत्क्रियाशून्यो न जीवपोतो मनोरथवणिजोऽभिप्रेतनिर्वाणपत्तनभूसंप्रापणाय संसारार्णवतरणक्रियामभ्येति ॥११४३॥
संसारसागराओ उम्बुड्डो मा पुणो णिवुड्डेज्जा। चरणगुणविष्पहुँणो युड्डइ सुबहुं पि जाणतो ।।९७।११४४॥ संसारसागराओ कुम्मो इव कम्मचम्मविवरेणं । उम्मज्जितुमिध जइणं णाणातिपयासमासज्ज ॥११४५॥ दुलभं वि याणमाणो सयणसिणेहादिणी तयं चत्तो । संजमकिरियारहितो तत्थेव पुणो णिबुड्डेज्जा ॥११४६।।
संसारसा० गाहा, [२] । दुलई गाहा । तद्यथा नाम कश्चित् [कूर्मः] कर्मचर्मस्थगितार्णवोदरतमोगतानेकजलचरविक्षोभांदिव्यसनसंतप्तः परिभ्रमन् कथञ्चिदेव चर्मरन्ध्रमासाद्य विनि[:]सृत्य च शरच्चन्द्रकिरणालिङ्गनमनुभूय भूयः स्वजनस्नेहविषयानुषक्तचित्तस्तत्रैव निमज्येत, पुनश्च तच्चर्मरन्ध्रमपश्यस्तमोऽनुगतोऽत्यन्तं व्यसनमनुभवेत् तद्वदयमपि सांसारिकछलनादिकर्मसन्तानचर्मस्थगितभवजलधिचरानेकसत्त्वसंक्षोभादिव्यसनशतपरिगतो मिध्यादर्शनादितमोऽनुगतः परिभ्रमन् कथञ्चिदेव मनुष्यभवसंवर्तनीयकर्मचर्मरन्ध्रमासाय विनि[:]सृत्य च मनुष्यतयाहच्चन्द्रवचनकिरणावबोधमवाप्य सुदुःप्राप्यमपि जानानः स्वजनस्नेह विषयानुषक्तचित्तः पुनर्निमज्जेत भूयश्च भकयसनमनुष्यभवचर्मरन्ध्रमवाप्नुयादित्यपायदर्शनादप्रमादवता भवितव्यम् ॥११४४-४६॥
आहऽण्णाणी कुम्मो पुणो णिमज्जेज्ज णं पुण तण्णाणी । सकिरियापरिहीणो वुड्डुति गाणी जधऽण्णाणी ॥११४७॥
आह गाहा । आह-अज्ञानी कूर्मों हिताहितविभागाज्ञतया निमज्जेत, न तु हिताहितप्रातिपरिहारज्ञो जैन इति । उच्यते-चरणगुणविहीनो बह्वपि जानानो निमज्जते चरणगुणविहीनतया हेतुभूतयेति । ज्ञोऽपि हि निमजते, सत्क्रियाविरहादज्ञकच्छपवदिति प्रयोगः ॥११४७॥ १ इय णा जे । र बिहूणो । ३ उच्छुडो हे । ४ पहीणो हे त । ५ तुम्मिह त । ६ दियो तयं त । ७ तत्तो हे जे त । ८ ण तु मतं गाणी जे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org